SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ पक्षिणोऽप्यपर्याप्तमत्यल्पम् - अन्नं गृहीत्वा स आम्रनिकुञ्जच्छायासु कुत्राऽपि निलीनो जात: । सायं हि शान्ते सूर्यातपे सर्वेऽपि सत्वरमेकत्र मिलिताः बुद्धोपदेशं श्रोतुम् । ताभ्यामपि श्रुतस्तस्योपदेशः । तस्य स्वरो हिं सर्वथाऽविकलः सौम्यः स्वस्थः शान्तिमयश्चाऽऽसीत् । गौतमः उपादिशत् – “दुःखमस्ति, दुःखकारणानि सन्ति, दुःखमुक्तेरुपाया अपि सन्ति । जीवनमिदं दुःखरूपमेव, जगदपीदं दुःखपूर्णमेवाऽस्ति । किन्तु दुःखमुक्तेर्मार्गोऽपि सम्प्राप्तोऽस्ति । ये केऽपि बुद्धदर्शितं मार्गमनुसरिष्यन्ति ते सर्वेऽपि निर्वाणं प्राप्स्यन्ति " | - तस्य वचनपद्धतिर्मृदुलाऽपि दृढाऽऽसीत् । चत्वार्यार्यसत्यानि, अष्टाङ्गं च मार्गं बोधयित्वा सधैर्यं तेन विविधदृष्टान्तैः पुनः पुनः प्रेरणाभिश्च स्वीयोपदेश: सरलतया प्रवर्तितः । दिवि प्रसरत् तेज इव, ननु काचित् तेजसोल्लसिता तारकेव स्पष्टतया स्वस्थतया च तस्य वाणी श्रोतृहृदयेषु प्रासरत् । यदा स प्रवचनं समर्थितवान् तदा रात्रिः प्रवर्तमानाऽऽसीत् । बहवो यात्रिकास्तच्चरणयोर्वन्दित्वा स्वं सङ्घे स्वीकर्तुं विज्ञप्तवन्तः । बुद्धस्तेषां सङ्घप्रवेशमनुमतवान् कथितवांश्च - 'भवद्भिः सम्यक्तयोपदेश: श्रुतोऽस्ति । सङ्घे सम्मील्याऽत्रभवन्तः ससुखं विहरन्तु दुःखानां चाऽन्तं कुर्वन्तु" । - तावता लज्जालुर्गोविन्दोऽप्यग्रे आगतो निवेदितिवांश्च "अहमपि महायशस्विनं बुद्धं तत्सङ्कं च प्रति मम निष्ठां समर्पयितुमुत्कोऽस्मि " । ततः स सङ्घ स्वस्वीकारार्थं विज्ञप्तिं कृतवान् स्वीकृतश्च बुद्धेन । रात्रिविश्रामार्थं गते बुद्धे, तत्क्षणमेव गोविन्दः सिद्धार्थसमीपं गत्वोत्सुकतया कथितवान् – “सिद्धार्थ ! यद्यप्यहं भवन्तमुपालब्धुं नार्होऽस्मि । तथाऽपि कथयामीदं यद्भवां द्वावपि भगवतोऽस्य वाणीं श्रुतवन्तौ तत्कथितमुपदेशं चाऽपि धारितवन्तौ । गोविन्दो हि तद् बोधं श्रुत्वा तन्मार्गं स्वीकृतवानस्ति, किन्तु सिद्धार्थ ! मित्र ! किं भवानपि निर्वाणपथमेनं समाक्रमितुमुत्साहवान् नाऽस्ति वा ? किमिति भवान् अद्यापि चिरायते ? इतोऽपि किं वा प्रतीक्षते भवान् ? " - -- शब्दानिमान् गोविन्दमुखाच्छ्रुत्वा सिद्धार्थः सहसा निद्रातो जागृत इव । स गोविन्दस्य मुखं चिरायाऽवलोकितवान् । ततः स मृदुतयोक्तवान्, उपहासलेशोऽपि तत्र नाऽऽसीत् – " गोविन्द ! मम सुहृत् ! भवान् पदं निहितवानस्ति, भवान् स्वमार्गं निर्णीतवानस्ति । भवान् हि सर्वदा मम प्रियमित्रं वर्तते, गोविन्द ! भवान् सर्वदा मामेवाऽनुसरति । बहुधा मया चिन्तितमासीत् यत् किं गोविन्दो मया विनाऽपि कदाचिदपि – स्वात्मविश्वासेनैव - पदमात्रमपि क्रमिष्यति वा ? किन्तु, अद्य भवता स्वसामर्थ्यं दर्शितमस्ति मित्र !, भवता स्वपथश्चितोऽस्ति । आऽन्तं भवान् तमेव मार्गमनुसरेत् निर्वाणं दुःखमुक्तिं च प्राप्नुयात्" गोविन्दो हीतोऽपि तत्कथनमर्म नाऽवबुद्धवान्, अतोऽधीरतया पुनस्तं कथितवान् – “वदतु, मम प्रियमित्र ! वदतु यद् - भवानपि बुद्धं प्रति स्वनिष्ठासमर्पणं विना नाऽन्यत् किमपि कर्तुं शक्तोऽस्तीति" । सिद्धार्थस्तत्स्कन्धे स्वहस्तं निवेश्य सौम्यतया कथितवान् - " भवता ममाऽऽशीर्वचांसि श्रुतानि भोः !, अहं पुनरपि कथयामि - भवान् आऽन्तमिममेव मार्गमनुसरेत्, भवान् निर्वाणं प्राप्नुयात्" । I - - तत्क्षणमेव गोविन्दोऽवगतवान् यत् - तस्य मित्रं तं विहाय गच्छतीति । तस्य नेत्रे अश्रुक्लिन्ने जाते । ६७
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy