________________
वृक्षाणामधस्तात् केचिद्ध्यानार्थमुपविष्टाः, केचितु शास्त्रादिचर्चासु संलग्नाः । एवं च दूरतस्त्वेतदुद्यानं मधुमक्षिकाभिः सङ्कलो मधुकोश इव प्रत्यभासत ।
ततः प्रायशः सर्वेऽपि भिक्षवो भिक्षाग्रहणार्थं स्व-स्वभिक्षापात्रं गृहीत्वा नगरं प्रति प्रस्थिताः । ते हि प्रत्यहमेकवारमेवाऽभुञ्जत । अन्येषां तु का वार्ता ? स्वयं भगवान् बुद्धोऽपि नगरे भिक्षाटनं करोति स्म ।
सिद्धार्थस्तं दृष्ट्वान् केनचिद् देवेन च निर्दिष्ट इवाऽभिज्ञातवानपि । स तं महायशस्विनं भिक्षापात्रधरं, प्रशान्ततया चलन्तं, निराडम्बरं, काषायवस्त्रधारिणं वीक्षितवान् ।
ततः पार्वे एव स्थितं गोविन्दं स निभृतमुक्तवान् - "पश्य भोः ! अयमेव स महायशस्वी बुद्धः" । गोविन्दस्तं सावधानं दृष्टवान् । यद्यपि काषायवस्त्रधारिणां शतशो भिक्षूणामेवाऽन्यतमः स झटिति समभिज्ञायमानो नाऽऽसीत् तथाऽपि गोविन्दस्तमभिज्ञातवान् । आम्, स एवाऽऽसीद् बुद्धः । द्वावपि तं निरीक्षमाणावेव तमनुगतवन्तौ ।
बुद्धः स्वमार्गे उपशान्ततया गच्छन्नाऽऽसीत् । तन्मुखमण्डलं गाढं विचारमग्नमिवाऽभासत । अथाऽपि नैव तद् विषण्णं नाऽपि च प्रहृष्टमासीत् । स स्वचित्तेऽत्यन्तं प्रसन्नतामनुभवन्निवाऽलक्ष्यत । स्वस्थशिशोर्मुखे इव तस्याऽपि वदनेऽव्यक्तं स्मितमुल्लसति स्म । अन्यभिक्षव इव सोऽपि शाटकमेकं धृत्वा चलन्नासीत् तथाऽपि तस्य वदनं, पदन्यासाः, शमवती भूमिन्यस्ता दृष्टिः, लम्बमानो हस्तः, हस्तस्य च प्रत्येकमङ्गल्यः, ननु समग्रमप्यस्तित्वं केवलं परमां शान्ति पूर्णतां चैव द्योतयति स्म । तस्य सम्पूर्णेऽपि व्यक्तित्वे न काऽपि तृष्णा स्पृहा वा प्रकटति स्म न वा कस्याऽप्यनुकरणं तत्राऽभासत । केवलमविच्छिन्ना शान्तिरक्षीयमाणं तेजोऽनिर्वचनीया च स्वस्थता स्फुरति स्म ।
नगरं प्राप्य गौतमो भिक्षार्थमितरभिक्षुवदेव गृहाण्यटितवान् । इमौ च द्वौ श्रमणौ तस्य पूर्णतयोपशान्तेन व्यवहारेण, अक्षुब्धयाऽऽकृत्या चैव तमभिज्ञातवन्तौ । तत्राऽऽकृतौ न काऽपि काङ्क्षाऽभिलाषो वा, न कोऽपि दम्भो न वा कोऽपि प्रयत्नो दृश्यते स्म । केवलं तेजः शान्तिश्चैव द्योतेते स्म ।
"अद्याऽऽवां साक्षात् तस्यैव मुखादुपदेशं श्रोष्यामः", सहसा गोविन्दोऽवदत् ।।
किन्तु सिद्धार्थस्तं नैवोदतरत् । उपदेशश्रवणे तस्यौत्सुक्यं नाऽऽसीदेव । उपदेशात् काचिन्नूतना शिक्षा प्राप्यतेत्यत्रापि तस्य श्रद्धा नाऽऽसीत् । यद्यपि तेन गोविन्देन च कर्णोपकर्णं तस्य महाज्ञानिन उपदेशस्यांऽशाः श्रुतचरा एव, तथाऽप्यद्य तु तस्य पूर्णमपि ध्यानं गौतमस्य मस्तके, तदंसयोः, तच्चरणयोः, तस्य स्थिरे लम्बमाने च हस्ते चैवाऽऽसीत् । तस्य प्रत्येकमङ्गल्याः प्रत्येकं सन्धिभ्यः ज्ञानमेव स्फुरदिव प्रत्यभासत । ते हि सन्धयो ननु सत्यमेवोद्गिरन्तः सत्यस्य निर्मलं प्रकाशमेव चोच्छ्वसतोऽनुभूतास्तेन ।।
एषोऽयं बुद्धो ननु प्रत्येकमणुषु पवित्रतम आसीत् । इतः पूर्वं कदाऽपि सिद्धार्थेन न कञ्चित् प्रति ईदृश आदरो बहुमानो वा दर्शितो न वाऽऽकर्षणमनुरागश्चाऽप्यनुभूत आसीत् ।।
तौ द्वावपि तूष्णीमेव नगरे बुद्धमनुसृतवन्तौ स्वस्थानं च प्रतिनिवृत्तौ । ताभ्यां तद्दिने उपोषितुं निर्णीतमासीत् । तावता ताभ्यां प्रतिनिवर्तमानो गौतमो विलोकितः, स्वशिष्यवृन्दमध्ये उपविश्य -