SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ | वाचकानां प्रतिभाव: मान्याः सम्पादकवर्याः, सादरं प्रणामाः । २९तम्यां शाखायां सम्पादकीये सम्यक् चिन्त्यते । रोगाणां मुख्या स्थितिः मनस्येव विद्यते । मानसिकदोषाणामपशमने रोगाणां शान्तिः सरलतया भवति । हिन्दीमहाकाव्ये श्रीरामचरितमानसेऽन्तिमे काण्डे मानसरोगाणां विवरणं विराजते । 'बम्लहरीगीते', 'धारास्थवाग्देवीमूर्तिमधिकृत्य' इति लेखे च प्रा. अभिराजराजेन्द्रमिश्रस्य चिन्तनमभिनन्दनीयमस्ति । वस्तुतः सर्वत्र भारतीया संस्कृतिः समुपेक्ष्यते । प्रसङ्गेऽस्मिन् श्रीश्रीरामशर्मादीनां लेखा मन्तव्याः सन्ति । 'छन्दश्छटाचमत्काराः' इति ललितकथायां परिहासमुखेनाऽपि वैदिकजनानामार्षप्रयोगाणां वा समालोचना न युज्यते । मुनिवर्याणां लेखाः कथाश्च लोकहितभावनया जनान् सत्कर्मणि प्रवर्तयन्ति । एष रचनात्मकः प्रयासोऽभिनन्द्योऽस्ति । 'चौर्यम्' इति कथायाम् - 'मालति ! दुःखिनी मा भव । प्रसन्नमनसा शान्त्या च विचारय । यावत् सर्वैः सर्वाणि वस्तूनि नाऽवाप्येरन् तावन्न चौर्यं निवारयितुं शक्यम् । चौर्यं न रुचिकरं किन्तु चौर्य मनुजस्य पराधीनताऽस्ति' इति कथनं समीचीनमस्ति, किन्तु साम्प्रतं धनधान्योपेता विविधवैभवविलासयुता उच्चतरपदासीना नेतारश्च चौर्यकर्मणि सततं संलग्ना: समाज राष्ट्रं च सर्वथा विनाशयन्ति । प्रतिदिवसं वार्तापत्रिकासु धनचौर्यस्य नूतना नूतना घटनाः प्रकाशिता भवन्ति । नैतिकताया एतादृशं पतनं सर्वैश्चिन्तनीयमस्ति । मन्ये, शिक्षासंस्थासु नैतिकशिक्षाया धार्मिकशिक्षायाश्च नितरामपेक्षा विद्यते । सञ्चारसाधनैरपि समाजे ये चरित्रवन्तः सद्गुणोपेता जनाः सन्ति, तेषां कार्याणि सावहितं प्राकाश्यं नेतव्यानि । जयतु संस्कृतं संस्कृतिश्च । डॉ. रूपनारायणपाण्डेयः प्रयागः
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy