________________
वाचकानां प्रतिभावः
सहचिन्तनम्
संस्कृता कीर्तित्रयी,
नमो गुरुभ्यः ।
सादरं प्रणतयः ।
नन्दनवनकल्पतरोः त्रिंशी शाखा सम्प्राप्ता ।
स्वागतपूर्वकं प्रार्थ्यन्ते धन्यवादाः ।
अत्र प्रास्ताविके कृतः निर्देशः, भारतीय संस्कृत्याः चिरन्तनत्वस्य कारणान्वेषणार्थं ददाति सङ्केतम् । मूलतः अस्माकं संस्कृतिः नित्यनूत्ना, अत एव सनातनी च ।
अपरं च, मनसः एव शिक्षणं केन्द्रीभूतमस्ति अस्मद्देशे । सर्वासां प्रवृत्तीनां केन्द्रीभूतं मनः । एकतो बन्धार्थम्, अन्यतश्च मोक्षार्थमपि साहाय्यकं मन एव । सत्यमिदमुररीकृत्य, महान्तः सर्वे साधवः, मनसः प्रवृत्तिमेवाऽवलोकयन्ति । सर्वे ते, जागृततयैवं कुर्वन्ति, एवं कर्तुमन्यान्प्रेरयन्ति च । फलतः, भारतस्य भारतीयताऽस्खलिता । जाते आक्रमणेऽपि न नाशस्तस्याः ।
साम्प्रते समये, प्रचारमाध्यमानां विकृतिः, नग्नत्वम्, अर्थलोलुपत्वम्, च तथा प्रभावकं जातमस्ति, यथा मनोविकृति: प्रबला भवेत् । मनसि प्रदूषिते विकृतिमापन्ने वा सति, चौर्यम्, अत्याचार, अनाचार, अनियन्त्रितस्य कामस्याऽऽक्रमणं, व्यभिचारः, इत्यादिकं सम्भवति ।
प्रभावकैः सुज्ञैराचार्यैः प्रयत्नः करणीयः एतेषां माध्यमानां नियन्त्रणार्थं शुद्ध्यर्थं च । यदि व्यापके माध्यमे, शुद्धिः संस्कारमत्त्वं च स्यात् तर्हि जनसाधारणेऽपि शनैः शनैः विकाराभावो भविष्यति ।
किन्तु
.को नाम प्रवृत्तः स्यात्तदर्थं, यदाऽर्थोपार्जनेऽन्धत्वं, स्वार्थ- पटुत्वं, प्रतिष्ठा - परकत्वं च प्रबलम् ? देव एव जितेन्द्रिय: सहायको भवेत् समेषां शुद्ध्यर्थं, संस्कृति - संस्काररक्षणार्थं च । साधवः सिद्धिमन्तश्चोदारमनसा शुभम् । नम्रत्वेनाऽऽदिशन्त्येव, तेनाऽस्त्याशा समुज्ज्वला ॥
अस्तु,
डॉ० वासुदेव: पाठकः 'वागर्थः '
अमदावादः