SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ | वाचकानां प्रतिभावः उपा. विश्रुतयशविजयः नन्दनवनकल्पतरोः ३०तमी शाखा प्राप्ता पठिता च। नीरोगिताया रहस्यं लोकानां बाह्याभ्यन्तरलाभरूपं पत्रमपि च बाह्यसुखं गौणीकृत्याऽऽत्महिते प्रवर्तनीयमिति दर्शयति । वैविध्यमयी व्यसनवीथिकाऽपि परदेशीयपदार्थेषु रागमल्पीकर्तुं सूचयति। भोजराजसरस्वतीत्वेन प्रसिद्धा प्रतिमा, भवतां चिन्तनं पठित्वा, अम्बिकायाः प्रतिभाति । भवतां मौलिकविचारधारा स्तुत्या । * * * मान्यवरेषु प्रणतिततिं विज्ञाप्य निवेदयामि यत् - नन्दनवनकल्पतरुणा न केवलमहमपि च संपूर्णसंस्कृतलोकः कृतज्ञोऽस्ति । चतुर्दिक्षु कीर्तिं वितन्वन् कीर्तित्रयीसम्पादितस्य नन्दनवनकल्पतरोः त्रिंशत्तमोङ्को हस्तलग्नो मनोहरति ८+८८ क्राउन-पुटैः, ११ काव्यानि कथा-व्यङ्ग्यकथा-ललितकथाद्यखिलकथाविभागम् अनुवादसाहित्यं ग्रन्थसमीक्षां प्राकृतकथाश्च क्रोडीकृत्य । मुनिश्रीयशोविजय-हर्षदेवमाधव-नागराजराव-रामकिशोरमिश्रवासुदेवपाठकानां काव्यानि कलानाथशास्त्रिणः ललितकथा मुनिरत्नकीर्तिविजयस्य कथा: मुनिकल्याणकीर्तिविजयस्य विचाराः सहृदयसंवादभाजः सन्तश्चेतोहरन्ति इति पुनर्वक्तव्यं नास्ति । उत्तमकर्गजे मुद्रितं स्फुरन्मुखपुटं सर्वानाकर्षति इति विशेषः । डॉ. नारायणदाशः सम्पादकः कथासरित् ।
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy