________________
२. श्रमणैः सह तस्मिन् सायङ्काल एव सिद्धार्थो गोविन्दश्च श्रमणैः सह मीलितौ । ततस्तौ श्रमणेभ्यस्तैः सह वासार्थं दीक्षादानार्थं च विज्ञप्तिं कृतवन्तौ । श्रमणा अपि सहर्षं तयोविज्ञप्तिं स्वीकृतवन्तः ।
सिद्धार्थेन स्वीयवस्त्राणि कस्मैचिद् दुर्गतब्राह्मणाय प्रदत्तानि, स्वयं च केवलं कटिवस्त्रमस्यूतं गैरिकवर्णं च प्रावारमधारयत् । प्रत्यहमेकवारमेव भुङ्क्ते स्म सः, न पुनः कदाऽप्यग्निपक्वं भुङ्क्ते स्म । कदाचित् स पक्षं यावदुपवासान् कदाचिच्च मासोपवासमपि करोति स्म । तस्य देहान्मेदो-मांसादिकं व्यलीयत । तस्य कृशास्वङ्गलिषु नखा दीर्घत्वमभजन् चिबुके च शुष्कं रूक्षं च श्मश्रु आविर्भूतम् । विलक्षणाः स्वप्नास्तस्य विस्फारितनेत्रपटले प्रतिफलन्ति स्म । स्त्रीणां दर्शनेन तस्य दृष्टिहिमशीतला भवति स्म । नगरवीथ्यां च पर्यटत उत्तमनेपथ्यान् जनान् दृष्ट्वा तस्य मुखमोष्ठौ चाऽवधीरणया वक्रीभवन्ति स्म ।
स बहून् जनान् पश्यति स्म – वाणिज्यरतान् वणिजः, मृगयासक्तान् राज्ञः, मृतमनुशोचतस्तत्स्वजनान्, देहविक्रयं कुर्वतीर्वेश्याः, रुग्णानुपचरतो वैद्यान्, वपनादिमुहूर्तानि निर्णयतो मौहूर्तिकान्, परस्परं स्निह्यतः प्रेमिणः, स्वापत्यानि लालयन्तीर्जननीश्चेत्यादीन् – किन्तु चिन्तयति स्म यदेकतमोऽप्येतेषां दृष्टिपातमपि नाऽर्हति, यतः सर्वमप्येतद् दुर्गन्ध्येवाऽस्ति, उच्छलदसत्यस्य गन्धेन भृतम् । सर्वत्रैन्द्रियिकविषयाणां तुच्छसुखानां विनश्वरसौन्दर्यस्य चेन्द्रजालमेव प्रसृमरमास्ते । सर्वेऽपि सुनिश्चितं विनाशं प्रत्येव धावन्तः सन्ति । विश्वमेतत् कटुकं जीवनं च दुःखमेवाऽऽस्ते ।
सिद्धार्थस्यैयकमेव ध्येयमासीत् – 'शून्यत्वप्राप्तिः' - तृष्णायाः शून्यत्वम्, इच्छायाः शून्यत्वं, स्वप्नानां शून्यत्वं, राग-द्वेषयोर्हर्ष-शोकयोश्च शून्यत्वं, प्रान्ते चाऽहङ्कारस्य लयः । ततश्च शून्ये हृदये समुद्भूतायाः परमशान्तेरनुभवनं शुद्धतमान्तःकरणधारायाश्चाऽनुभवनं तस्य परमं लक्ष्यमासीत् । यदा ह्यात्मा सम्पूर्णतया जितो भवेत्, अहङ्कारः समूलनाशं नश्येत्, सर्वेऽपि कामास्तर्षाश्चोपशान्ता भवेयुस्तदैवाऽन्तिमोऽन्तरतमोऽन्तरात्मा – यो हि जीवनस्याऽद्यावध्यप्रकटं सर्वोच्चं च सत्यमासीत् स - उद्घटितो भवेत् । एतदेव मनसिकृत्य स श्रामण्यमङ्गीकृतवानासीत् ।
सिद्धार्थो निःशब्दतया प्रचण्डे सूर्यातपे पीडां तृषं च सहमानो तिष्ठति स्म - तावत् तिष्ठति स्म यावत् तस्य पीडा-तृषोरनुभूतिरेवोपशम्येत । एवमेव स वर्षति धाराबद्धं धाराधरे तिष्ठति स्म । तस्य गलदबिन्दवाईमस्तकाज्जलं स्तब्धयोस्तदंसयोस्तदोस्तत्पादयोश्च पतत् तदङ्गानि जडीकरोति स्म । किन्तु स तत्र तावत् तिष्ठति स्म यावत् तदङ्गानि निष्प्रकम्पाणि स्थिराणि च न भवन्ति ।
तथैव स कण्टकेष्वपि शान्ततया निविशति स्म । तस्य त्वचि कण्टकवेधनेन तीव्रवेदना भवति स्म, ततो रक्तं परिस्रवति स्म, व्रणानि च भवन्ति स्म । किन्तु यावद् रक्तस्रावः स्वयमेव नोपरमति, कण्टकवेधनं नोपशाम्यति शल्यानां वेदना च न निवर्तते तावत् तत्रैव कण्टकेषु स निष्प्रकम्पतया दृढतया चाऽधितिष्ठति स्म ।