SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तस्य विषये बढ्योऽद्भुता अश्रद्धेयाश्च वार्ता श्रूयन्ते स्म । यथा, स चमत्कारान् करोति स्म, स मारं जितवान् आसीत्, देवैश्च सह सम्भाषणं कर्तुं शक्त आसीत् । किन्तु तस्य द्वेषिणो विरोधिनोऽश्रद्धालवश्च जनाः कथयन्ति स्म यत् – “गौतमः प्रमादी धूर्तश्चाऽस्ति, स केवलं मधुरवचनैर्जनान् प्रतारयति, स्वयं तु महता वैभवेन विलासितया च दिनानि यापयति, यज्ञान् तिरस्करोति, तस्य न किमपि ज्ञानं विद्यते, तथा स नैव योगाभ्यासं नाऽपि च देहदमनं तपश्चरणं वा जानाति" । बुद्धविषयिकी वार्ताऽऽकर्षिक्यासीत्, किञ्चित् सम्मोहनमिवाऽऽसीत् तस्याम् । जगद् हि दुःखैर्व्यथितमासीत् जीवनं च प्रतिपदं विषमं दुर्गमं चाऽऽसीत् । एतादृशे काले एषा नूतनाऽऽशेव जागृता । एको हर्षप्रदः सान्त्वनदायकः शान्तिकरः सुन्दराभिश्चाऽऽशंसाभिः परिपूर्णः सन्देशं समागत इव सर्वत्र बुद्ध एव चर्चागोचरो भवति स्म । सकलभरतखण्डस्य युवका एनं प्रवादं श्रुत्वा कुतूहलिनो आशंसिनश्च सञ्जाता आसन् । प्रत्येकं नगरेषु ग्रामेषु च महायशसः शाक्यमुनेः समाचारं कथयितारो यात्रिणोऽपरिचिता वैदेशिकाश्चाऽपि स्वागतार्हा जायन्ते स्म । शनैः शनैः समाचारा एते वने वसतां श्रमणानां कर्णगोचरत्वमपि प्राप्ताः । सिद्धार्थ-गोविन्दावपि तत्समाचारलेशं – शङ्काभृतमाशंसापूर्णं चाऽपि - श्रुतवन्तौ । श्रमणज्येष्ठाय प्रवादोऽयं न रोचते स्मेति तौ तद्विषयिकी चर्चामतिविरलतयैव कुरुतः स्म । ज्येष्ठेन श्रुतचरमासीद् यद् – 'बुद्धोऽयं पुरा कश्चन वनवासी श्रमण आसीत्, किन्तु पश्चात् स सर्वं तत् त्यक्त्वा विलासमयं भौतिकसुखपूर्णं च जीवनं जीवति स्म'। ईदृशे गौतमे तस्य आदरः कथं वा भवितुमर्हेत् ? अथाऽन्यदा गोविन्दः स्वमित्रमुक्तवान् – “अद्यैकस्मिन् ग्रामे एकेन ब्राह्मणपुत्रेणाऽहं भिक्षार्थमामन्त्रितः । यदाऽहं तद्गृहं प्राप्तस्तदा तत्रैकोऽन्यो ब्राह्मणपुत्रो मगधेभ्य आगत आसीत् । स स्वनेत्राभ्यां प्रत्यक्षमेव बुद्धं दृष्ट्वा, तद्वाणी च साक्षाच्छ्रुत्वैवाऽऽगतः । तत्सकाशाद् बुद्धवर्णनं श्रुत्वा नूनमेवाऽहमुत्सुको जातोऽस्मि यत्, कदाऽऽवामुभावपि तस्य पूर्णपुरुषस्य मुखादुपदेशं श्रोष्यावः ? वयस्य ! किमावामपि इतस्तस्योपदेशं श्रोतुं गच्छेव वा ?" सिद्धार्थोऽकथयत् – “मया तु चिन्तितमासीद् यद् गोविन्दस्तु श्रमणैः सहैव वत्स्यति, षष्टिं सप्ततिं वा वर्षाणि यावत् इहैव स्थित्वा श्रमणैः शिक्षिता विद्या अभ्यसनीया-इत्येव तस्य ध्येयमिति मे मतिरासीत् । किन्तु भवद्विषयेऽहमत्यल्पं जानामि गोविन्द ! । भवतो मनसि ईदृशो विचारोऽपि जागर्ति - तन्नैव ज्ञातवानहम् । किं भवानपि ममेवेदानीं नूतने पथि सञ्चरितुं, बुद्धस्योपदेशं च श्रोतुमिच्छति वा !" गोविन्देन कथितं – “मित्र ! भवान् ममोपहासं कृत्वाऽऽनन्दं प्राप्तुमर्हति । भवतु नाम । किन्तु सिद्धार्थ ! किं भवानपि तस्य पूर्णपुरुषस्योपदेशं श्रोतुमुत्सुकोऽस्ति न वा ? तथा भवतैवैकदा मे कथितमासीद् यद् - अहमचिरेणैव श्रामण्यं त्यक्ष्ये इति - तद् भवान् स्मरति न वा ?" तन्निशम्य सिद्धार्थो हसितः । तद्धासध्वनौ शोकमिश्रितोपहासो द्योतते स्म । तेनोक्तं – “भवता ६३
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy