SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ गलज्जलिका स्वप्नो मया न दृष्टः प्रा. अभिराजराजेन्द्रमिश्रः स्वप्नो मया न दृष्टो ननु कल्पना कृता नो । इच्छा च काऽपि दीर्घा सामर्थ्यतो वृता नो ॥१॥ उद्घातिनी ममाऽऽसीद् यात्रोचिता धरित्री भ्रान्तं मयाऽप्रमादं गन्त्री समाश्रिता नो ॥२॥ सुहृदामपि स्वभावो विदितो मयाऽनुभूत्या । तस्माद्धि सङ्कटेऽपि प्रभुता परीक्षिता नो ॥३॥ केषामहं न वाऽऽसं, मम किन्तु केऽपि नाऽसन् । शाखोटकेन मयका पीडा प्रकाशिता नो ॥४॥ विश्वास आत्मनियतौ मम सन्ततं दृढाऽऽसीत् । तस्माच्च नग्ननृत्यैर्वैधेयताऽऽहृता नो ॥५॥ न च सम्भवं यदासीत् तस्मिन्न काऽपि निष्ठा । चिञ्चाफले कदाचिन्मृदुता प्रकल्पिता नो ॥६॥ दृष्टो न बालुकायां तैलस्य कोऽपि लेशः । तस्मात्कृतघ्नतायामिष्टा कृतज्ञता नो ॥७॥ शुचिता न सम्भवाऽऽसीत् खलु कज्जलप्रकोष्ठे । कुटिलाऽथ राजनीतिस्तस्मान्मया श्रिता नो ॥८॥ दृष्ट्वा वनं दवाग्नौ निखिलं जगच्च दुःखे । नारायणैकपरता स्वीया कदर्थिता नो ॥९॥ O २३
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy