SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्रीमान् लघुहरिभद्रः, कूर्चालसरस्वतीति यः ख्यातः । जयतात्स सर्वकालं, श्रुतिके वलिकल्प इह भुवने ॥११४॥ (सप्तभिः कुलकम) तुर्यस्तेषु च पूज्यो, वाचकवर्यो हि मानविजयोऽभूत् । पुष्णाति प्रभुभक्तिं य-द्रचितस्तवनान्यनेकानि ॥११५॥ यतिगृहिधर्मनिरूपक आतेने धर्मसङ्ग्रहाभिख्यः । ग्रन्थो येन महार्थो, व्याडिविहितसङ्ग्रहप्रतिमः ॥११६॥ श्रीधीरविमलगणिनः, शिष्योऽभूज्ज्ञानविमलसूरीशः । योऽपूजयज्जिनेन्द्र, स्तवनसुमैर्नवनवैर्नित्यम् ॥११७॥ यः श्रीपालचरित्रं, शतशः स्तवनानि सिद्धिगिरिराजः । व्यतनोच्चाऽऽनन्दघन-स्तवनचतुर्विंशतिस्तबकम् ॥११८॥ (युग्मम्) श्रीउदयरत्ननामा, षष्ठोऽभूत्तेषु वाचकप्रष्ठः । यः कृत्वाऽनेककृती-बहूपकृतिमातनोलोके ॥११९॥ गूर्जरगिरि च 'शलोका'-रूपं विदितं ततान यः काव्यम् । श्रीनेमि-शालि-भरत-प्रमुखानुपमेयचरिताढ्यम् ॥१२०॥ (युग्मम्) श्रीमत्कूपाविजयबुध-शिष्यः श्रीमेघविजयनामाऽभूत् । वाचकवर्यो यत्कृत-कूतयः सम्प्रीणयन्ति ज्ञान् ॥१२१॥ देवानन्दाभ्युदयं, दिग्विजयं शान्तिनाथकाव्यञ्च । चन्द्रप्रभाभिधानं, व्याकरणं प्रक्रियाबद्धम् ॥१२२॥ मेघमहोदय-युक्ति-प्रबोधसंज्ञौ तथा महाग्रन्थौ । रचयाञ्चकार धीमानपि काव्यं सप्तसन्धानम् ॥१२३॥ (त्रिभिर्विशेषकम) गणिदेवचन्द्रनामा जातः श्रीदीपचन्द्रगणिशिष्यः । अपि खरतरगच्छीयः, समदृष्टिः सर्वगच्छेषु ॥१२४॥ नयचक्रागमसारी, स्तवनानि, ध्यानदीपिकाप्रमुखान् । रचयित्वा यो ग्रन्थान्, कृतवानुपकारमतिविपुलम् ॥१२५॥ काले तस्मिन् धर्म-प्रभावका आसतैतदष्टमुखाः । ये निजशक्त्या शासन-मुच्चैः प्राभावयज्जैनम् ॥१२६॥ (त्रिभिर्विशेषकम्) कर्पूरविजयनामाऽभूदथ गणिसत्यविजयपट्टधरः । श्रीप्रभसूरिर्यस्मै, पन्न्यासपदं ददौ समहम् ॥१२७॥ तत्पट्टाम्बरभानुर्जातः श्रीमान् क्षमाविजयनामा । प्रातिष्ठिपत्पृथिव्यां, यो जिनबिम्बानि सप्तशतम् ॥१२८॥
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy