SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जिनविजयाह्वः, पन्यासस्तदीयपट्टभूषोऽभूत् । स्तवनसुमैर्यद्ग्रथितै-भव्या जिनमर्चयन्त्यधुना ॥१२९॥ तत्पट्टभूषणोत्तम-उत्तमविजयाभिधो गणिर्जातः । गूर्जरसौराष्ट्रादौ, बहुश्रुतो यो विजहेडरम् ॥१३०॥ अष्टप्रकारपूजां, श्रीजिनविजयनिर्वाणरासञ्च । रचयित्वोपकृति यो, व्यदधादधुनातने लोके ॥१३१॥ तत्पट्टे पल्यासः, पूज्यः श्रीपद्मविजयनामाऽभूत् । श्रीधर्मसूरिकतो, योऽभूत्पल्यासपदशाली ॥१३२॥ यः सकलागमसागर-पारीणः कविवर: क्रियानिष्ठः । ख्यातोऽभूदिह भुवने, पूज्य: परमद्रहाभिधया ॥१३३॥ उत्तमविजयकरास-स्तवन-स्तुतिदेववन्दनप्रभृतिः । यत्कृतकृतिसन्दोहोऽधुनाऽपि जनमानसं हरति ॥१३४॥ (त्रिभिर्विशेषकम्) समजनि तदीयपट्टे पंन्यासो रूपविजयकविवर्यः । शरदागमपूजां, निजगुरुरासादि योऽरचयत् ॥१३५॥ पन्यासकीर्तिविजय-स्तत्पदमचकासयद् विततकीर्तिः । यद्गुरुबन्धव आसन्, कविमोहन-जीवविजयाद्याः ॥१३६॥ कस्तूरविजयनामा, पंन्यासस्तत्पदेऽजनिष्ट गणिः । येन जनु: स्वं सफलं, विदधे श्रामण्यपालनतः ॥१३७॥ श्रीमन्मणिविजयाह्वः, पंन्यासोडलञ्चकार तत्पट्टम्। यो प्रतिबद्धविहारी, प्रशान्तमूर्तिस्तपोनिष्ठः ॥१३८॥ तत्पट्टाजविकासी, पूज्यः श्रीबुद्धिविजयनामाऽभूत् । निःस्पृहशिरोमणिों, योगिवर: स्वात्मसन्निष्ठः ॥१३९॥ अपि धृतढुण्ढकदीक्षो, दृष्ट्वा शत्रुञ्जयं महातीर्थम् । संवेगदीक्षितोऽभूत्, सार्वागमविदितपरमार्थः ॥१४०॥ ढुण्ढक सङ्के येन, प्रवर्तितः शुद्धधर्मसन्देशः । कतिपयमुनयो जगृहुः, संवेगित्वं निजेन सह ॥१४१॥ नितरां भद्रप्रकृति-बहुसङ्ख्यकशिष्यवृन्दपरिकलितः । पञ्चनदीयो मुनिराट्, न हि केषां शंसनीयोऽभूत् ॥१४२॥ (चतुर्भिः कलापकम्) तच्छिष्येषु प्रथमो, जातो गणिराजमुक्तिविजयाह्वः । प्रौढप्रभावनिलयो विदितोडजनि मूलचन्द्र इति ॥१४३॥ * ४५ आगमपूजाम् । २०
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy