SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ संयमशैथिल्यं य-स्तत्कालीनं व्यपाचकार गणिः । साधूनां वो यः, प्रस्थापितवान् श्रमणसङ्ग्रे ॥१४४॥ केन्द्रस्थितसुरगुरुरिव, शासति तस्मिन् सुधर्मसाम्राज्यम् । सुस्थितमापुः सर्वा-ण्यपि धर्माङ्गानि सर्वत्र ॥४५॥ (त्रिभिर्विशेषकम्) सरलाशयो गुणाढ्यो गीतार्थो वृद्धिचन्द्रपुण्याख्यः । आसीदसौ द्वितीयः, संस्मारितपूर्वसत्पुरुषः ॥१४६॥ वैराग्यामृतवारिधि-रजनि तृतीयो हि नीतिविजयाह्वः । आनन्दविजयनामा, तुर्योऽभूच्चापि सच्चरितः ॥१४७॥ श्रीमोतिविजयसंज्ञो, मुनिगणगण्यो हि पञ्चमो जातः । सूरिर्विजयानन्दः षष्ठोऽभून्यायपाथोधिः ॥१४८॥ आत्मनि सततं रमणादात्मोद्धाराय चोपदेष्टुत्वात् । वसुधायां ख्यातोऽभू-दात्मारामेति नाम्ना यः ॥१४९॥ यश्च दयानन्दमुखान्, विजित्य वादे यशो रं लेभे । स्याद्वाददर्शनस्य, प्रवर्तितो येन जयघोषः ॥१५०॥ योऽज्ञानतिमिरभास्कर-तत्त्वादर्शादिसत्कृतीर्विदधे । पञ्चनदे कूतवाँश्च प्रभावनां जैनधर्मस्य ॥१५१॥ (चतुर्भि: कलापकम्) षष्ठाभिग्रहधारी, पञ्चनदीयो हि सप्तमो जातः । श्रीखान्तिविजयनामा, निजपरहितसाधनैकमनाः ॥१५२॥ अथ दानविजयनामा, विद्वद्वर्योऽष्टमो मुनिर्जातः । प्रविवेश यस्य धिषणा, कुशाग्रवल्यायसिद्धान्ते ॥१५३॥ इति बुद्धिविजयपट्टे, सञ्जातस्याऽस्य वृद्धिचन्द्रस्य । समभूवनव शिष्या, निधयो नव चक्रिणो हि यथा ॥१५४॥ आद्यस्तत्र हि केवल-विजयो धैर्यादिसदगुणोपेतः । गीतार्थः पल्यासो, द्वितीयगम्भीरविजयाहवः ॥१५५॥ पन्न्यासभाक् तृतीयो, धीरश्चतुरविजयाभिधो जातः । विद्वद्धर्यस्तुर्यः, ख्यातः श्रीहेमविजयाख्यः ॥१५६॥ अथ पञ्चमो मनीषी, जातः श्रीविजयधर्मसूरीशः । यो गुरुभक्त्यनुभावा-दवाप्तवान् शास्त्रनैपुण्यम् ॥१५७॥ विद्वत्पर्षदि काशी-राजोडदाद् वादजिष्णवे यस्मै । शास्त्रविशारद-जैनाचार्योपाधिं प्रणुलमनाः ॥१५८॥ (युग्मम्) २१
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy