SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ "जगदिदं शुभं वा भवेदशुभं वा, जीवनं सुखमयं वा भवेद् दुःखपूर्णं वा, शाश्वतं वा भवेन्नश्वरं वा - एतत्सर्वस्य नाऽस्ति किमपि महत्त्वं; किन्तु समग्रविश्वस्यैक्यं, प्रत्येकं घटनानां परस्परं सुसङ्गतता, लघोर्महतो वा सर्वस्याऽपि ह्येकस्मिन्नेव स्रोतसि, एकस्मिन्नेव जन्ममरणयोः कार्य-कारणनियमे समावेशः - भवत उदात्तोपदेशात् स्पष्टतयेदं तत्त्वं प्रकाशते भोः पूर्णपुरुष! । किन्तु, एकत्र भवदुपदेशे हीदमैक्यमयं च समग्रवस्तूनां ताकिकोऽन्वयः खण्डितो भवति । एकस्माद् सूक्ष्मच्छिद्रादैक्यस्य विश्वे किञ्चिदपूर्वं, किञ्चिन्नवं, तादृशं किञ्चित् - यत् पुरा नाऽऽसीत्, यच्च प्रदर्शयितुं प्रमाणयितुं वा न शक्यं - प्रविशति, तद्धि भवत्प्रतिपादितः संसारत उत्थानस्य - निर्वाणस्य सिद्धान्तः । अनेनैव सूक्ष्मरन्ध्रेण खलु शाश्वतस्यैकस्य च विश्वस्य नियमः खण्डितो भवति । आक्षेपकरणार्थं कृपया क्षम्यताम्" । गौतमः शान्त्या स्थिरतया च तच्छृतवानासीत् । ततः स पूर्णपुरुषः सौम्य-मृदु-स्पष्टस्वरेण कथितवान् – “भवता ह्युपदेशः सम्यक्तया श्रुतोऽस्ति भो ब्राह्मणपुत्र !, तथा श्रवणानन्तरं तदुपरि गभीरं चिन्तनं यद् भवता कृतं तदपि प्रशस्यम् । भवता या क्षतिस्तत्राऽन्विष्टा सा इतोऽपि विचारार्हा । भवान् हि ज्ञानपिपासुरस्ति तथाऽपि तर्कजालं शब्दजालं च प्रति जागरूको भवतु । तर्काः खलु निरर्थकाः, ते सुन्दरा असुन्दरा वा भवेयुः, चातुर्यपूर्णा मूर्खतापूर्णा वा भवेयुः, यः कोऽपि तान् स्वीकर्तुं निराकर्तुं वाऽर्हति" । "यद्यपि, उपदेशं श्रुत्वा भवता यच्चिन्तितं तत्र मेऽभिप्रायो नाऽस्ति, नाऽपि च तदुपदेशस्य लक्ष्यं ज्ञानपिपासूनां विश्वस्वरूपज्ञापनम् । तस्य लक्ष्यमस्ति किञ्चिद् भिन्नमेव, तद्धि दुःखमुक्तिः । इदमेव हि गौतम उपदिशति नाऽन्यत्" । "कृपया भगवन् ! मयि कुपितो मा भवतु" - सिद्धार्थ उक्तवान् । “अहं हि भवता सह शब्दानधिकृत्य विवदितुं न कथयामीदम् । तथा भवान् सत्यमेव वदति यत् तर्काः खलु निरर्थकाः । किन्तु अहमन्यदपि किञ्चित् कथयानि वा? प्रभो ! अहं भवद्विषये क्षणमात्रमपि न शङ्के । भवतो बुद्धत्वविषयेऽपि न मे मनसि शङ्कालेशोऽपि, तथा भवता तदुच्चं ध्येयं प्राप्तमस्ति यद्धि सहस्रशो ब्राह्मणा ब्राह्मणपुत्राश्च प्राप्तुं प्रयतन्ते - एतदपि शङ्कातीतमेव । इदं ध्येयं भवता, स्वयमेव निश्चितेन पथा स्वप्रयत्नैरेव च प्राप्तमस्ति - विचारैः, ध्यानेन, ज्ञानेन स्वप्रबोधनेन च । भवता ह्युपदेशश्रवणैर्न किञ्चिदपि शिक्षितमस्ति - इति खलु मे मतिः । अतोऽहं विचारयामि यद् न कोऽपि जनः केवलमुपदेशश्रवणेनैव निर्वाणं प्राप्नुयात्, तथा हे भगवन् ! भवच्चित्ते यदा ज्ञानप्रबोधो जातस्तत्क्षणीयां परिस्थितिं भवानपि न कमपि जनं शब्दरुपदेशैर्वा विवरीतुं शक्तः । परमज्ञानिनो बुद्धस्योपदेशो हि बहून् विषयान् व्याप्नोति, प्रभूतं शिक्षयति - सदाचारेण कथं जीवितव्यम्, असत्पथश्च कथं परिहर्तव्यः - इत्यादि । किन्तु भगवता - लक्षेष्वेकेनैव केवलं - स्वयं यदनुभूतं तस्य निर्देशोऽपि ह्यस्मिन् स्पष्टे सारवति चोपदेशे नैव प्राप्यते । इदमेव भवदुपदेशश्रवणकाले मया विचारितं समनुभूतं च । अत एवाऽहं मम स्वमार्गे एव गमिष्यामि, नाऽन्यं श्रेष्ठं वा सिद्धान्तं धर्मं वा मृगयितुं, यतोऽहं जानामि यत् - स नाऽस्त्येव - किन्तु, सर्वान् सिद्धान्तान् गुरूंश्च परिहर्तुं तथैकाक्येव मम ध्येयं प्राप्तुं मर्तुं वा । परन्तु, भगवन् ! अहं सदैव स्मरिष्यामि दिनमिदं क्षणं चेमं - यदा किल कश्चन ६९
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy