________________
द्वयोरपि पुत्रौ न पठितवन्तौ । ततो दुर्भाग्यादुन्मार्गगामिनौ तौ जातौ । एकदा द्वयोर्मध्ये कलहो जातस्तेन तौ द्वौ परस्परं वैरिणौ जातौ । अनेकशो द्वयोर्मध्येऽभूद् युद्धमपि । एवं सत्यपि द्वयोर्जनन्योः सम्बन्धः प्रेमभावश्च तथैवाऽऽस्ताम् । प्रतिदिनं परस्परं संभूय वार्तालापं ते कुरुतः स्मैव ।
एकदा रहीमा गृहे एकाकिन्येवाऽऽसीत् । तदा दगडुशकीलयोर्मध्ये भयङ्करं युद्धं प्रवृत्तमिति तत्र च दगडुना शकीलो मारित इति च सा ज्ञातवती । दीनवदना साऽधः पश्यन्ती गृहे स्थिताऽऽसीत् । मार्गे जना 'नश्यन्तु-नश्यन्तु' इति वदन्त इतस्ततः प्रधावन्ति स्म । समीपवर्तिनो गृहजना झटिति गृहद्वारं पिधाय गृहे प्रविविशुः । इतो रहीमा यदा गृहद्वारि गतवती तदैव दगडुर्धावन् आगतवानुच्चैरुक्तवाँश्च - मातर् ! मातर् ! मां रक्षतु, आरक्षका मां ग्रहीतुं प्रत्यागच्छन्ति ।
रहीमा तत्क्षणं तं गृहे प्रावेशयत् । गृहान्तः प्रकाशरहिते लघ्वपवरके निगूहितः स । सा तु द्वारि गत्वा स्थितवती । तदैव प्रधावन्त आरक्षका आगतवन्तः । तैः पृष्टं - मातर् ! दगडुर्दृष्टो भवत्या ? कमपि मारयित्वा नंश्यन् स एतां दिशमागच्छन्नस्माभिर्दृष्टः, तत् कुत्राऽपि दृष्टः सः ?
रहीमा मुखं धुन्वाना - नाऽत्र कोऽप्यागतवानित्युक्तवती । स अत्रैव कुत्रचिदस्ति, मातर् ! सत्यं वद - इत्युक्तमारक्षकैः । गृहं पश्यन्तु, अत्र न कोऽप्यागतवानेव - इत्युक्तवती रहीमा ।
रहीमायाः कथनं सत्यं मन्यमानास्ते आरक्षका अन्यां दिशं वलितवन्तः । यतस्ते जानन्ति – यद्, रहीमा न कदाऽपि दगडुं रक्षेत् । दगडुस्तु तत्पुत्रस्य शत्रुरासीदतः ।
- इतः काशीमा रहीमा च प्रतिदिनमिव रात्रौ संमीलिते । अद्य प्रथमवारं दगडु-शकीलयोः चर्चा कृतवत्यौ ते जनन्यौ । दुष्टो निर्गुणश्च पुत्रः कथं रक्षितस्त्वया ? स त्वारक्षकाणां ताडनस्यैवाऽधिकार्यासीत्, इति रहीमां तर्जितवती काशीमा ।
___रहीमाऽवोचत् - काशि ! एवं भवेत्तर्हि को लाभ: स्यात् ? केवलमेकाऽन्या जननी पुत्रविहीना भवेत् । आवयोर्मध्ये एक एव पुत्रोऽस्ति । अस्माकं इस्लामधर्मे दयाया (रहेम) अतीव महिमाऽस्ति । अल्लाह: परमदयालुरस्ति । सोऽपराधिनामपराधान् क्षाम्यति । तेन कथिते मार्गे ये चलन्ति ते शान्तिमवाप्नुवन्ति ।
__ [दुर्भाग्येनाऽस्मदीयेषु चलच्चित्रेषु वृत्तपत्रेषु च प्रतिशोधनवृत्तिर्वीरकृत्यरूपेण वर्ण्यते । प्रतिशोधको महान् मन्यते । वस्तुतोऽनुकम्पा क्षमा करुणा चैव शर्म ददति, हृदयं पवित्रीकुर्वन्ति, तथा परमं सुखं च यच्छन्ति ।]
८४