________________
कथा
अध्यात्मगोष्ठी
मुनिधर्मकीर्तिविजयः
सूफीपरम्परायां 'राबिया' इत्यस्या नामाऽतीव प्रसिद्धम् । तस्या जीवनं सरलं निर्दम्भं च तथा प्रवृत्तिरपि निराडम्बराऽऽसीत् ।
एकदा चिन्तकैः सह सा ज्ञान-ध्यान-अध्यात्मादिगोष्ठीषु संलीनाऽऽसीत् । तत्र 'हसन'नामा साधकोऽपि विद्यते स्म । स तां राबियां कथितवान् - आवां द्वावपि तडागस्य जलोपर्युपविश्याऽध्यात्मगोष्ठी कुर्याव ।
हसनस्य चित्ते सूक्ष्मोऽहङ्कारो वर्तते इति राबिया ज्ञातवती । ततस्तयोक्तम् - भवान् मयैकयेव सह चर्चयितुमिच्छेत् तर्हि चलतु, आवां द्वौ गगने स्थित्वा चर्चा कुर्याव ।
हसनस्तु चकितो जातः । स उक्तवान् - भवत्या सहाऽहं चर्चयितुं न शक्तः, यत उड्डयनस्य गगने स्थिरतायाश्च शक्तिर्न मयाऽद्यावधि प्राप्ता ।
राबिया गदितवती - हसन ! जले स्थिरतायाः शक्तिं तु मीनोऽपि धारयति । मक्षिका मशकाश्चाऽपि उड्डयनस्य शक्तिं धारयन्ति । एताः शक्तयश्च न सत्यप्राप्तेः प्रमाणीभूताः सन्ति । एतास्तु केवलमहंतायाः स्पर्धायाश्च प्रदर्शनरूपाः सन्ति । एताभिः सह नाऽध्यात्मस्य कोऽपि सम्बन्धोऽस्ति ।
एतच्छ्रुत्वा हसनो लज्जितो जातः ।
८५