SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कथा अमरदत्त-मित्रानन्दम् मुनिकल्याणकीर्तिविजयः अस्ति किलोज्जयिन्यां पुर्यां देवधरो नाम श्रेष्ठी । स खलु न्यायोपार्जितवित्तवान् सद्वृत्तवान् दीनोद्धरणैकव्यसनः सज्जनसङ्गमैकविलसनश्चैकदा हर्षपुरात् निजपत्न्या सह स्वनगरं प्रतिनिवर्तमान आसीत् । देवसेना हि तदवसर एव पुत्रीमेकां प्रसूतवत्यासीदतो देवधरस्तां विशेषेण संभालयन् प्रवासं कुर्वन्नासीत् । अपि च, देवधरस्तापसभक्त आसीत् । मध्येमार्गं च तापसानामाश्रमो विद्यते स्म । अतः सभार्यो देवधरस्तापसवन्दनार्थमाश्रमान्तर्गतः कुलपतिमन्यांश्च तापसान् यावद् वन्दते स्म तावत् कुलपति चिन्ताचान्तवदनं लक्षयित्वा सविनयं चिन्ताकारणं पृष्टवान् । कुलपतेरपि तस्मिन् स्नेहो विश्वासश्चाऽऽसीदतः स किञ्चिदिवाऽऽश्वस्तो जातः स्वचिन्ताकारणं च कथितवान् - 'अस्ति तावदिहैव भारते वर्षे सुरतिलकं नाम वरनगरम् । तत्र च मकरध्वजो नाम राजाऽस्ति । तस्य च पट्टराज्ञी मदनसेना नाम । तयोश्च पुत्रः पद्मकेसराभिधोऽस्ति । स च राजा सुनीतिकलितः प्रीत्या प्रजाः पालयति । तत्पुत्रश्चाऽपि सुगृहीतकलाकलापो यौवनस्थः परिणायितोऽस्ति राजकन्यकाभिः । अथैकदा राज्या सहोपविष्टो राजा नालापादिभिस्तन्मनोरञ्जयति स्म तावता राज्ञः केशकलापं समारयन्ती राज्ञी पलितमेकं दृष्ट्वा नर्मोक्त्या कथितवती – 'स्वामिन् ! अवधीयतां, दूतः समागतोऽस्ति किल!' । एतच्छ्रुत्वा चित्ते चमत्कृतस्तारतरलनेत्रश्च राजेतस्ततो विलोकयन्नुभ्रान्त इव । तच्च विलोक्योच्चैः परिहासं कुर्वती राज्ञी कथयति स्म - 'नाथ ! शूरोऽपि सपराक्रमोऽपि बहसमरलब्धविजयोऽपि "दूतः" इति शब्दमात्रं श्रुत्वाऽपि भीतोऽस्ति वा भवान् ?' राज्ञोक्तं – 'नैव भद्रे !, नाऽहं दूतशब्दं श्रुत्वा भीतोऽस्मि, किन्तु, दूतविषये न केनाऽपि चरेण मम कथितं, नाऽपि प्रतिहारेण निवेदितं, न चाऽपि विलोकयामि कञ्चन दूतमत्र भवने, तथा - मम नयनाभ्यामपि भवत्या दृष्टिनिर्मलतराऽस्तीत्यपि न; ततश्च भवत्या मुखाद् दूतशब्दं श्रुत्वा विस्मयाकुलो जातोऽस्मि' । देव्योक्तं - 'स्वामिन् ! मम तात्पर्य तत्र नाऽऽसीत् !' 'तहि किमेवं मां विप्रतारयसि ?' ८६
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy