SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ निर्मितमस्ति तत् । किं भवता दृष्टं वा ?' मित्रानन्देनोक्तं – 'आम् दृष्टमेव । किन्तु तत्राऽमुकस्थाने एका शालभञ्जिकाऽस्ति, सा प्रतिच्छन्दतो निर्मितोत कल्पिताऽस्ति ?' स्थपतिना किञ्चिद् विचिन्त्योक्तं - 'अहो ! सा तु मयोज्जयिनी-राजस्य महासेननृपस्य सुतायाः प्रतिच्छन्देन निर्मिताऽस्ति' । एतन्निशम्य 'नूनं मम कार्य सिद्धमेवाऽधुने'ति विचिन्त्य चित्ते हृष्टः स स्थपतिमुक्तवान् – 'भवता तद् देवभवनं सर्वथोत्कृष्टकलाकलितं कृतमस्ति । अस्माकमपि तादृशमेव कारयितव्यमिति हार्दिकीच्छाऽस्ति । अतोऽहं दैवज्ञमापृच्छय दिवसादिकं निश्चित्य समागमिष्यामि' । 'बाढ'मिति स्थपतिना भणिते मित्रानन्दस्ततो निर्गत्य विपणि प्राप्तः । तत्र च वस्त्रादिकं विनिवर्त्य ततो लब्धेन द्रव्येण सम्बलं क्रीतवान् ।। तत उज्जयिनीं प्रति प्रस्थितोऽखण्डप्रयाणैः प्रवसन् विकाले तत्र प्राप्तः, नगरद्वारासन्न एव देवकुले च रात्रिवासार्थं स्थितः । तावता सपटहशब्दं तेन घोषणा श्रुता यद् – 'रात्रेश्चतुरोऽपि प्रहरान् यो मृतकमिदं रक्षेत् तस्य दीनारसहस्रं दीयेते'ति । ततस्तेन द्वारपालः पृष्टः – 'किमर्थमेतावन्मात्रे कार्ये एतावद् धनं दीयते?' द्वा:स्थेनोक्तं – 'पथिक ! नगरीयं मार्योपद्रुताऽस्ति सम्प्रति । एतं च मार्योपहतं कञ्चन तद्गृहस्वामी यावन्निष्कासयेत् तावता सूर्योऽस्तमितो नगरद्वाराणि च पिहितानि । मारीहतमिति भयान्न कोऽपि मृतकं रक्षेत् खलु !' । श्रुत्वैतत् तेन चिन्तितं यद् – 'द्रव्यरहितानां कार्याणि नैव सिध्यन्ति । अत एतद्रक्षित्वा धनं च लब्ध्वा निजबन्धुभ्यः प्रच्छन्नतयैव कार्यं साधयामि तावत्' । ततस्तेन पटहं स्पृष्ट्वा मृतकरक्षणमङ्गीकृतमत: श्रेष्ठिना तस्मै दीनारपञ्चशतं प्रदत्तं. शेषं च प्रभातकाले दास्यते इति कथयित्वा गतः श्रेष्ठी । अनेनाऽपि चाऽऽबद्धपरिकरेण तन्मृतकं रात्रौ रक्षितम् । सूर्योदये च जाते तत्स्वजना आगत्य मृतकं यावन्नयन्ति स्म तावदनेन 'शिष्टं दीनारपञ्चशतं दीयता'मिति कथिते 'अरे ! पञ्चशतानि तु ते दत्तान्येव, किमिदं प्रलपसि?' इत्युक्त्वा बलात् तन्मृतकं नीत्वा गतास्ते । तदेषोऽपि 'यदि महासेनोऽत्र राजाऽस्ति तदाऽवश्यं ग्रहीष्यामि' इत्युक्त्वा विपणिं प्राप्तः । तत्र च दीनारशतव्ययं कृत्वोत्तमवस्त्रालङ्कारादि क्रीत्वा परिधाय च राज्ञश्चामरधारिण्या वसन्ततिलकाख्याया गणिकाया भवनं गतः । प्रविशत्येव तस्मिन् सा तत्स्वागतमकरोत् । कुट्टनी च तमन्तरनयत् । तेनाऽपि हस्तस्थिता धनग्रन्थिस्तस्यै प्रदत्ता । तया च तामुद्घाट्य विलोकितं यावत् तावद्दीनारचतुःशतं प्रत्यक्षीकृतम् । 'अहो ! उदारोऽयं कश्चन महानुभावः' इति विचिन्त्य स्वपुत्री भणिता - 'पुत्रि ! सगौरवमयं महानुभावः परिचरितव्यः' । तयाऽपि तत् प्रतिपन्नं तस्य च स्नान-विलेपन-भोजनादिकं कारितम् । रात्रौ च वासभवने नीतोऽसौ 'न विषयलुब्धानां कार्याणि सिध्यन्ती'ति चिन्तयन्नसौ सर्वामपि रात्रिं स्वेष्टदेवध्यानेन व्यतीतवान् । प्रभाते च स्वपुत्री तथैवाऽलङ्कृतां दृष्ट्वाऽक्कया पृष्टे तयाऽपि यथावृत्तं कथितम् । एवमेव दिनत्रये व्यतिक्रान्तेऽक्कया पृष्टोऽसौ - 'वत्स ! राज्ञामपि दुर्लभां मे पुत्रीं किमिति न प्रतिपद्यसे?' तेनोक्तं - 'सर्वमपि करिष्ये, किन्तु मदीयमेकं कार्यं भवत्या कर्तव्यम्' । तयोक्तं 'करिष्यामि' । 'एवं तर्हि कथमपि राजभवने प्रविश्य रत्नमञ्जरी राजकन्यां गत्वा कथय यद्भवत्या वल्लभस्याऽमरदत्त ९०
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy