SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आर्यमहागिरिसंज्ञो, योगिप्रवरोऽजनिष्ट तत्पट्टे । अपि जिनकल्पोच्छेदे, जिनकल्पितुलां दधौ धीरः ॥१०॥ श्रीमानार्यसुहस्ति-स्तद्गुरुबन्धुः प्रभावको जातः । नृपसम्प्रतिमुपदिश्य, प्राभावयदार्हतं धर्मम् ॥११॥ जातौ शिष्यप्रवरौ कोटीमितसूरिमवजप्तारौ । सुस्थित-सुप्रतिबुद्धौ, यदुपज्ञः कौटिकाख्यगणः ॥१२॥ तत्पट्टे सञ्जातो नाम्ना श्रीइन्द्रदिन्नसूरीशः । श्रीदिनाभिधसूरि-स्तदीयपट्टेऽभवद् विज्ञः ॥१३॥ तत्पट्टाम्बुधिचन्द्रो, जातिस्मृतिमानमानसामर्थ्यः । श्रीसिंहगिरिर्जातः, सूरीशोऽनर्घ्यगुणकलितः ॥१४॥ तच्छिष्यो वजाख्यः, समजनि दशपूर्ववित्प्रथितवृत्तः । अक्षुब्धो नृपसंसदि, समगृह्णाद्यो रजोहरणम् ॥१५॥ प्रादादमरो यस्मै, सन्तुष्टो व्योमगामिनी विद्याम् । यत उद्भूता शाखा, सम्प्रत्यपि राजते वज्री ॥१६॥ (युग्मम्) श्रीवज्रसेननामा, तदीयपट्टे रराज सूरीशः । सोपारके विषाला-शनाल्यवारीज्जनौघं यः ॥१७॥ तत्पट्टे चन्द्राह्वः, सूरिर्जातो हि चन्द्र इव सौम्यः । यस्माद् गणस्य नाम, प्रवर्तितं चन्द्रगच्छ इति ॥१८॥ सामन्तभद्रसूरि-स्तत्पट्टमलञ्चकार विरतिरतिः । वनवासीति चतुर्थं, गणस्य नामाऽभवद् यस्मात् ॥१९॥ श्रीवृद्धदेवसूरिः, समजनि गुणरत्नरोहणस्तस्मात् । प्रातिष्ठिपत् प्रभुं यो, वीरं कोरण्टके ग्रामे ॥२०॥ श्रीप्रद्योतनसूरिः, प्रद्योतनवत्तदीयपट्टेऽभूत् । यो निजगवाउनुपमया, विश्वं प्राबोधयन्निखिलम् ॥२१॥ तत्पट्टोदयशैलं, द्योतितवान् मानदेवसूरीशः । यो निजबुद्धिमहिम्ना, सुरगुरुमपि सञ्जिगाय द्राक् ॥२२॥ यत्पददानावसरे, स्कन्धगते वीक्ष्य शारदाकमले । चारित्रच्युतिशङ्का-शीलं मत्वा स्वगुरुवर्यम् ॥२३॥ यावज्जीवं विकृतीः, षट् प्रत्याख्याच्च भक्तकुलभिक्षाम् । पद्मा-जयादिदेव्यो, यत्परिचर्यां च सञ्चक्रुः ॥२४॥ (युग्मम्)
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy