SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ कदम्बगिरीश-श्रीमहावीरस्वामिस्तुतिः स्व. आ. श्रीविजयधर्मधुरन्धरसूरिः (शिखरिणीवृत्तम) महावीरस्वामिन् ! क्रमकमलयुग्मे रमतु ते द्विरेफश्चेतो मे मधुमधुरिमालोलुपमनाः । ततः स्वादं स्वादं गुणगणपरागं गतगदं क्रमाल्लीनो भूयादचलकमलाङ्गे क्रमगते ॥१॥ अये मोह ! त्वं ते मनसि किमु जानासि ललनासहायो ? निःसङ्गं कलयसि भृशं मां प्रहरसि । इतो दूरं यायाः परिजनयुतः सत्वरमथो कदम्बश्रीवीरो हतविहतमारोऽन्ववति माम् ॥२॥ अहं भ्रामं भ्रामं निखिलभुवने भ्रामकमतभ्रमीभूतः कामं क्षणमपि विरामं न प्रगतः । कदम्बेशः प्राप्तस्त्रिभुवनसमाख्यातसुयशाः समीक्ष्य श्रीवीरं हतविततपापः समभवम् ॥३॥ कदम्बासंसर्गादशिवनिचयं प्राप्य हृदये मया सङ्गः कार्यो नहि परमतो निश्चितमिति । परं श्रावं श्रावं प्रभवति कदम्बादघहतिः श्रितस्त्वां कादम्बाउशिवहतिविलम्ब नहि कुरु ॥४॥
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy