________________
शाकेष्वब्दशतेषु सप्तसु दिशं पञ्चोत्तरेषूत्तरां पातीन्द्रायुधनाम्नि कृष्णवृषणे श्रीवल्लभे दक्षिणाम् । पूर्वां श्रीमदवन्तिभूभृति नृपे वत्साधिराजेऽपरां
सौराणामधिमण्डलं जययुते वीरे वराहेऽवति । इति कालस्य निर्दिष्टत्वात् । तस्माद् भगवज्जिनसेनाचार्यः क्रिस्तशकाष्टमे शतमाने प्रादुर्बभूवेति वक्तुं शक्यम् । आस्थानमहाविद्वांसः कीर्तिशेषाः शान्तिराजशास्त्रिणः बहूनि प्रमाणानि परीक्ष्य भगवज्जिनसेनाचार्यस्य जन्म क्रिस्तशक-७५३तमे वर्षे, मृत्युश्च ८३८तमे वर्षे इति निगदन्ति स्म ।
दिगम्बरसम्प्रदायस्य मूलसंघ इति नाम । श्वेताम्बरसम्प्रदाये सिंहसंघः, नन्दिसंघः, सेनासंघः, देवसंघ इति चत्वारो मुनिसंघाः । भगवज्जिनसेनाचार्यः सेनासंघान्तर्भूतः । तस्य गुरुर्वीरसेनो दीक्षागुरुस्तु जयसेनः ।
हरिवंशपुराणस्य कर्ता अपरो जिनसेनः पुन्नटसंघसम्बन्धी । स कीर्तिषेणस्य शिष्यः ।
भगवज्जिनसेनाचार्यस्य कृतयः जयधवला । इयं कषायप्राभृतस्य टीका । अस्याः पूर्वभागो वीरसेनाचार्येण, द्वितीयो भागो भगवज्जिनसेनाचार्येण रचित इति वदन्ति । अस्यां टीकायां चत्वारिंशत्सहस्रसंख्या: श्लोकाः सन्तीति विपश्चितो वदन्ति । पूर्वपुराणम् । अस्याऽऽदिपुराणमित्यपि नामान्तरं प्रसिद्धम् । भगवज्जिनसेनाचार्यः महापुराणनाम्ना त्रिषष्टिशलाकापुरुषचरितं रचयितुं प्रारेभे । तत्समाप्तेः पूर्वमेव स भूलोकं तत्याज । अवशिष्टं भागं
तच्छिष्यः श्रीगुणभद्राचार्यः पूरयामास । ३. पार्वाभ्युदयम् । इदं काव्यं विशिष्टम् । कालिदासस्य मेघदूतमत्र संवलितम् । तत्रत्यमेकं पादं
पादद्वयं वा यथावत् स्वीकृत्य जिनसेनः पार्श्वनाथतीर्थङ्करस्य चरितं रचितवान् । एतादृशमन्यत्
काव्यमस्माभिः न दृष्टम् । भगवतो जिनसेनस्य काव्यवैखरी
यदि सकलकवीन्द्रप्रोक्तसूक्तप्रचारश्रवणसरसचेतास्तत्त्वमेवं सखे ! स्याः । कविवरजिनसेनाचार्यवक्त्रारविन्द
प्रणिगदितपुराणाकर्णनाभ्यर्णकर्णः ।। इति प्राचीनं पद्यं भगवज्जिनसेनाचार्यकाव्यगुणान् अभिव्यञ्जयति । संस्कृतभाषायां तस्य प्रभुत्वं विदुषामपि विस्मयं जनयति । लालित्यं सौष्ठवं गाम्भीर्यं च प्रतिपद्यं विद्योतन्ते । तस्य पाण्डित्यमप्रतिमम् । कथाया