________________
वक्ता कीदृशो भवेदिति प्रथमे पर्वणि स इत्थं वदति
तस्यास्तु कथकः सूरिः सद्वृत्तः स्थिरधीर्वशी । कल्येन्द्रियः प्रशस्ताङ्गः स्पष्टमृष्टेष्टगीर्गुणः ॥ यः सर्वज्ञमताम्भोधिवार्धौतविमलाशयः । अशेषवाङ्मलापायाद् उज्ज्वला यस्य भारती ॥ श्रीमान् जितसभो वाग्मी प्रगल्भः प्रतिभानवान् । यः सतां सम्मतव्याख्यो वाग्विमर्दभरक्षमः ॥ दयालुर्वत्सलो धीमान् परेङ्गितविशारदः । योऽधीती विश्वविद्यासु स धीरः कथयेत् कथाम् ॥ नानोपाख्यानकुशलो नानाभाषाविशारदः । नानाशास्त्रकलाभिज्ञः स भवेत् कथकाग्रणीः ॥ नाऽङ्गुलीभञ्जनं कुर्यान्न भ्रुवौ नर्तयेद् ब्रुवन् । नाऽधिक्षिपेन्न च हसेन्नाऽत्युच्चैर्न शनैर्वदेत् ।। उच्चैः प्रभाषितव्यं स्यात्सभामध्ये कदाचन । तत्राऽप्यनुद्धतं ब्रूयाद्वचः सभ्यमनाकुलम् ॥ हितं ब्रूयान्मितं ब्रूयाद् ब्रूयाद् धर्म्यं यशस्करम् ।
प्रसङ्गादपि न ब्रूयादधर्म्यमयशस्करम् ॥
इत्यालोच्य कथायुक्तिमयुक्तिपरिहारिणीम् ।
प्रस्तूयाद् य: कथावस्तु स शस्तो वदतां वरः ॥ (I. 126-134)
भगवज्जिनसेनाचार्यस्य व्याकरणपाण्डित्यं श्लोके श्लोके गोचरीभवति । द्वित्राण्युदाहरणानि प्रदर्शयाम: -
तत्र देवसभे देवं स्थितमत्यद्भुतस्थितिम् ।
प्रणनाम मुदाभ्येत्य भरतो भक्तिनिर्भर: ॥ ( I. 152)
सभाशब्दः स्त्रीलिङ्गः । किन्तु “सभा राजामनुष्यपूर्वा" (२-४-२३) इति पाणिनिसूत्रेणाऽत्र समासे तस्य नपुंसकत्वम् । तत्सप्त्म्येकवचनरूपं देवसभे इति ।
मध्येसभमथोत्थाय भरतो रचिताञ्जलिः ।
व्यजिज्ञपदिदं वाक्यं प्रश्रयो मूर्तिमानिव ॥ ( I. 155)
सभाया मध्ये इति मध्येसभम् । “पारेमध्ये षष्ठ्या वा” (२-१-१८) इति पाणिनिसूत्रेणाऽत्राऽव्ययीभावः समासः । व्यजिज्ञपदिति ण्यन्तस्य ज्ञाधातोर्लुङि रूपम् ।
४२