SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ वलिभं दक्षिणावर्तनाभिमध्यं बभार सा । नदीव जलमावर्तसंशोभिसतरङ्गकम् ।। (VI. 67) वलयोऽस्य सन्तीति वलिभम् इति विग्रहः । तुन्दिवलिवेटर्भः (७-२-१३९) इति पाणिनिसूत्रेण भप्रत्ययः । वज्रनाभिनपोऽमात्यैः संविधत्ते स्म राजकम् । मुनीन्द्रोऽपि तपोयोगैर्गुणग्राममपोषयत् ।। (XI. 52) __राज्ञां समूहो राजकम् । गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद् वुञ् (४.२.३९) इति सूत्रेण समूहार्थे वुञ् । युवोरनाकौ (७.१.१) इति तस्य अकादेशः । एवं च पूर्वपुराणस्य जिनसेनाचार्यविरचितस्याऽध्ययनं व्युत्पत्तिं समीचीनां जनयति इत्यत्र न संशयः । कवित्वं प्रेप्सूनामतितमाम् उपकारकमिदं पुराणमिति अस्माकं द्रढिष्ठो विश्वासः । भगवज्जिनसेनाचार्येण स्मृताः पूर्वकवयः स्वकृतेरादिमे पर्वणि भगवान् जिनसेनाचार्यः पूर्वान् जैनकवीन् स्मरति । यथा - कवयः सिद्धसेनाद्या वयं च कवयो मताः । मणयः पद्मरागाद्या ननु काचोऽपि मेचकः ॥ यद्वचोदर्पणे कृत्स्नं वाङ्मयं प्रतिबिम्बितम् । तान् कवीन् बहुमन्येऽहं किमन्यैः कविमानिभिः ॥ नमः पुराणकारेभ्यो यद्वक्त्राब्जे सरस्वती । येषामद्धा कवित्वस्य सूत्रपातायितं वचः ।। प्रवादिकवियूथानां केसरी नयकेसरः । सिद्धसेनकविर्जीयाद्विकल्पनखराङ्करः ।। नमः समन्तभद्राय महते कविवेधसे । यद्वचोवज्रपातेन निर्भिन्ना: कुमताद्रयः ॥ कवीनां गमकानां च वादिनां वाग्मिनामपि । यशः समन्तभद्रीयं मूनि चूडामणीयते ॥ श्रीदत्ताय नमस्तस्मै तपः श्रीदीप्तमूर्तये । कण्ठीरवायितं येन प्रवादीभप्रभेदने ।। विदुष्विणीषु संसत्सु यस्य नामाऽपि कीर्तितम् । निखर्वयति तद्गर्वं यशोभद्रः स पातु नः ॥ चन्द्रांशुशुभ्रयशसं प्रभाचन्द्रकविं स्तुवे । कृत्वा चन्द्रोदयं येन शश्वदाह्लादितं जगत् ।। ४३
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy