SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ चन्द्रोदयकृतस्तस्य यशः केन न शस्यते । यदाकल्पमनाम्लानि सतां शेखरतां गतम् ॥ शीतीभूतं जगद् यस्य वाचाऽऽराध्या चतुष्टयम् । मोक्षमार्ग स पायान्नः शिवकोटिर्मुनीश्वरः ।। काव्यानुशासने यस्य जटाः प्रबलवृत्तयः । अर्थान् स्माऽनुवदन्तीव जटाचार्यः स नोऽवतात् ॥ धर्मसूत्रानुगा हृद्या यस्य वाङ्मणयोऽमलाः । कथालङ्कारतां भेजुः काणभिक्षुर्जयत्यसौ ॥ कवीनां तीर्थकृदेवः किंतरां तत्र वर्ण्यते । विदुषां वाङ्मलध्वंसि तीर्थं यस्य वचोमयम् ।। भट्टाकलङ्क-श्रीपाल-पात्रकेसरिणां गुणाः । विदुषां हृदयारूढा हारायन्तेऽतिनिर्मलाः ॥ कवित्वस्य परा सीमा वाग्मित्वस्य परं पदम् । गमकत्वस्य पर्यन्तो वादिसिंहोऽर्च्यते न कैः ॥ श्रीवीरसेन इत्यात्तभट्टारकपृथुप्रथः । स नः पुनातु पूतात्मा कविवृन्दारको मुनिः ।। लोकवित्त्वं कवित्वं च स्थितं भट्टारके द्वयम् । वाग्मितावाग्मिता यस्य वाचा वाचस्पतेरपि ।। सिद्धान्तोपनिबन्धानां विधातुर्मद्गुरोश्चिरम् । मन्मनःसरसि स्थेयान्मृदुपादकुशेशयम् ॥ धवलां भारतीं तस्य कीर्ति च विधुनिर्मलाम् । धवलीकृतनिःशेषभुवनां नन्नमीम्यहम् ॥ जन्मभूमिस्तपोलक्ष्म्याः श्रुतप्रशमयोनिधिः । जयसेनगुरुः पातु बुधवृन्दाग्रणीः स नः ।। स पूज्य: कविभिलॊके कवीनां परमेश्वरः । वागर्थसंग्रहं कृत्स्नं पुराणं यः समग्रहीत् ।। कवयोऽन्येऽपि सन्त्येव कस्तान् उद्देष्टुमप्यलम् । सत्कृते ये जगत्पूज्यास्ते मया मङ्गलार्थिना ॥ इति । एते महाकवयो भगवता स्तुताः सर्वैः संस्कृतज्ञैः सादरं पठनीया: । जैनदर्शने जगतः स्रष्टुः परमात्मनः स्थानं नास्ति । एतद्विषये भगवता जिनसेनाचार्येण स्वविचाराः प्रकटिता ये सर्वेषां मतिमताम् अवधानम् अर्हन्ति । ४४
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy