SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तत्र किञ्चिदुदाहियते - स्रष्टा सर्गबहिर्भूतः क्वस्थ: सृजति तज्जगत् । निराधारश्च कूटस्थः सृष्ट्वैनत् क्व निवेशयेत् ॥ नैको विश्वात्मकस्याऽस्य जगतो घटने पटुः । वितनोश्च न तन्वादिमूर्तमुत्पत्तुमर्हति ।। कथं च स सजेल्लोकं विनाऽन्यैः करणादिभिः । तानि सृष्ट्वा सृजेल्लोकमिति चेदनवस्थितिः ।। तेषां स्वभावसिद्धत्वे लोकेऽप्येतत्प्रसज्यते । किंच निर्मातृवद्विश्वं स्वतः सिद्धिमवाप्नुयात् ।। सृजेद्विनाऽपि सामग्र्या स्वतन्त्रः प्रभुरिच्छया । इतीच्छामात्रमेवैतत् कः श्रद्दध्यादयुक्तिकम् ॥ कृतार्थस्य विनिर्मित्सा कथमेतस्य युज्यते । अकृतार्थोऽपि न स्रष्टुं विश्वमीष्टे कुलालवत् ।। अमूर्तो निष्क्रियो व्यापी कथमेष जगत्सृजेत् । न सिसृक्षाऽपि तस्याऽस्ति विक्रियारहितात्मनः ॥ तथाऽप्यस्य जगत्सर्गे फलं किमिति मृग्यताम् । निष्ठितार्थस्य धर्मादिपुरुषार्थेष्वनर्थिनः ।। स्वभावतो विनैवाऽर्थान् सृजतोऽनर्थसंगतिः । क्रीडेयं काऽपि चेदस्य दुरन्ता मोहसन्ततिः ।। कर्मापेक्षः शरीरादि देहिनां घटयेद्यदि । नन्वेवमीश्वरो न स्यात् पारतन्त्र्यात् कुविन्दवत् ॥ निमित्तमात्रमिष्टश्चेत् कार्ये कर्मादिहेतुके । सिद्धोपस्थाय्यसौ हन्त पोष्यते किमकारणम् ।। वत्सलः प्राणिनामकः सुजन्नन जिघक्षया । ननु सौख्यमयीं सृष्टिं विदध्यादनुपप्लुताम् ॥ सृष्टिप्रयासवैयर्थ्यं सर्जने जगतः सतः । नाऽत्यन्तमसतः सर्गो युक्तो व्योमारविन्दवत् ।। नोदासीनः सृजेन्मुक्तः संसारी नाऽप्यनीश्वरः । सृष्टिवादावतारोऽयं ततश्च न कुतश्चन || (IV. 17-30) इत्यादि । एवं पुराणस्याऽस्य पठनेन दार्शनिकानां प्रमेयाणां ज्ञानमपि लभ्यते । अतः सर्वादरणीयोऽयं ग्रन्थ इति विवक्षामः । ४५
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy