________________
सन्तोषो धनम् सा. संवेगरसाश्रीः
एकस्मिन्नदीतटे नाविक एकः स्वीयनौकासमीपे उपविष्ट आसीत् । तदैको धनिको वणिक् तत्राऽऽगतः, तं चोपविष्टं दृष्ट्वाऽकथयत् - 'किमिति त्वमत्रोपविष्टोऽसि ? किमिति च यात्रिकान् निजनौकयाऽपरं तीरं न प्रापयसि?' तेनोक्तं - 'अद्यतनदिनस्य कृते पर्याप्तं धनं मयाऽजितमस्ति । तेनैव मम सन्तोषः । अत उपविष्टोऽस्मि' ।
धनिकेनोक्तं – 'किन्त्वधुनाऽपि दिनास्तमने भूयान् कालोऽस्ति । एतावता कालेन त्वं द्वित्रवारं यात्रिकान् नेतुमानेतुं च शक्तः । तथा करणे च ते प्रभूतं धनमपि प्राप्येत' ।
नाविकेनोक्तं – 'तेन धनेनाऽहं किं वा कुर्याम् ?'
"एवं सञ्चितेन धनेन त्वमन्या अपि नौकाः क्रेतुं समर्थो भविता । ततश्चाऽधिकाधिकयात्रिकाणां यातायातेनेतोऽप्यधिकं धनं सञ्चितं भवेत्' ।
'ततस्ततः ?' 'ततस्त्वं नौकोद्योगमेव चालयितुं समर्थो भविष्यसि । ततश्चाऽतिप्रभूतधनस्य स्वामी भविष्यसि । 'तत: पश्चात् किं कर्तव्यं मया ?' 'अरे ! ततस्त्वया निश्चिन्ततया शान्त्या सुखेन च जीवनं यापयितव्यं खलु !'
तदा हसित्वा नाविकोऽवदत् - 'महाशय ! अहमधुनैव सुनिश्चिन्ततया शान्त्या सुखेन च जीवनं यापयन्नेवाऽस्मि । तद् भाविकाले तत्सर्वप्रापणार्थमिदानी किमर्थं क्लेशं दुःखं चाऽङ्गीकुर्याम् । सन्तोष एव मत्कृते धनं, तेनैव च मम जीवन सुखमयं शान्तिमयं चाऽस्ति । तं हारयित्वाऽन्येन धनेनाऽलम् ।
[सारः जीवनस्याऽमूल्यं कालं धनार्जने तत्सञ्चये तद्रक्षणे चैव व्ययीकुर्वाणा जनाः केवलं क्लेशं व्याधींश्चैव
प्राप्नुवन्ति, प्रान्ते च तत्सर्वमप्यत्रैव मुक्त्वा निःसहायतया परलोकं गच्छन्ति । सञ्चितं धनं न कदाऽपि मरणाद् व्याधिभ्यो वा तान् रक्षितुमलम् । अतः सन्तोषे एव मतिः कार्या ।]