________________
स्वरिते यस्मिन् सूरौ, समभूत्सङ्गद्वयं तपागच्छे । श्रीदेवसूरनामा, तथाऽऽणसूराभिधानश्च ॥८५॥ श्रीविजयदेवसूरिर्गुरुरिव विज्ञो बभूव तत्पट्टे । यो निजजननीसहितो, व्रतमादाद्धायने नवमे ॥८६॥ यनिरुपमगुणतुष्टः, साहिजहाँगीरसंज्ञनृपवर्यः । प्रादात्प्रवचनसंसदि, यस्मै हि 'महातपा'बिरुदम् ॥८॥ श्रीस्तम्भाभिधतीर्थे, यत्सूरिपदप्रदानपरममहे । श्रीमल्लसाधुमुख्यैः, खं-शरसहस्रं धनं व्ययितम् ॥८॥ यद्वचनामृतसिक्ता, राणकजगसिंहचित्तधर्मलता। सुषुवे जीवाहिंसा-गुरुभक्तिमुखानि सुफलानि ॥८९॥ प्रातिष्ठिपद् विशाला, यो जिनमूर्तीरनेकविषयेषु । सम्प्रत्यपि या भविनां, प्रमोदयन्ति द्रुतं चेतः ॥१०॥ निर्विकृति विकृतिं य-स्तत्याज समाञ्च भक्तगृहभिक्षाम् । आजीवनमुपयुक्तः, संयमयोगेषु सर्वेषु ॥९१॥ श्रीवीरविजयसंज्ञं, पण्डितवन॑ बिजापुरे नगरे । यो विधुखर्षिसुधांशौ, वर्षे पंन्यासमातेने ॥१२॥ उन्नाभिधानपुर्या-मष्टमभक्तो जगाम यः स्वर्गम् । देवानन्दाज्ज्ञेयं, तच्चरितं विजयदेवमाहात्म्यात ॥३॥ (अष्टभिः कुलकम) तत्पट्टकाननहरि-र्जातः श्रीविजयसिंहसूरीशः। दीक्षामासादितवान्, यो वयसो हायने दशमे ॥१४॥ विहरन् हि मेदपाटे, मरुधरविषये च गूर्जरे देशे । समहं प्रस्थापितवान्, पर:शता यो जिनप्रतिमाः ॥५॥ सूरिपदमहो येषां, नगर इलादुर्गनाम्नि सञ्जातः । तस्मिन् सहजूश्राद्धो, भूरितरं व्ययितवान् वित्तम् ॥६॥ श्रीसिंहे स्वर्गतवति, गच्छाभ्युदयाय देवसूरीशः । कञ्चन सुयोग्यपुरुषं, नियोक्तुमैच्छत् स्वकीयपदे ॥१७॥ श्रीसूरिमवजापात्, प्रत्यक्षीभूय मत्रराजसुरः । श्रीवीरविजयनाम्नः, सूरिपदार्हत्वमाचष्ट ॥८॥
१. पञ्चाशत्सहस्रम् ।