________________
आस्वादः
शून्यता
मुनिकल्याणकीर्तिविजयः
दृश्यमानं जगदिदं पञ्चषार्बुदमितैर्मनुष्यैः, शतशोऽर्बुदमितैः पशु-पक्षिभिः, लक्षशो कोटिशो वाऽर्बुदमितैः कीटकादिभिर्लघुजीवैः, अगण्यैः सूक्ष्मजीवैः, सङ्ख्यातीतैश्च पृथ्वी-जल-वाय्वग्नि-वनस्पत्यादिभिर्जीवैस्तथाऽसङ्ख्यनिर्जीववस्तुभिः सर्वतोऽतिनिबिडतया खचितं परिपूर्णं च प्रतिभाति । यत्र कुत्राऽपि दृष्टिपातः क्रियेत तत्र गाढो घनीकृतो वा वस्तुपुञ्जो दरीदृश्यते ।।
एवमेव निरभ्रायां तमोव्याप्तायां च रात्रौ यदि नभस्तलं यदि चक्षुर्त्यां पश्येम तदा तदपि सहस्रशो ग्रहैनक्षत्रैस्ताराभिश्च गाढतया व्याप्तं दृश्यते । यदि दूरवीक्षकमहायन्त्रेण (telescope) तत् पश्येम तदा तु ततोऽपि लक्षगुणितैर्ग्रह-नक्षत्र-तारकादिभिनिबिडं दृश्यते ।
अतो वयं चिन्तयामो यद् ब्रह्माण्डमिदं कियदिव गाढतया निबिडतया च सजीवनिर्जीवैश्च सर्वत्र व्याप्तं खचितं चाऽस्तीति । किन्तु, वास्तविकतया तथा नास्ति । याऽपि घनता निबिडता व्यापकता वा दृश्यते सा सर्वाऽपि भ्रान्तिरेव - इन्द्रियद्वारोपलब्धस्य बोधस्य भ्रान्तिः ।
अस्माकमत्र प्रश्नः स्याद् यत् सर्वमपीदं प्रत्यक्षतया दृश्यतेऽनुभूयते च, ततः कथमिव तद् भ्रमरूपं स्यात् ? किमत्र प्रमाणम् ? इति । तदैतत्समाधानार्थं किञ्चन चिन्तयामः -
प्रथमं तावत्, अस्माकमिन्द्रियाणि मनश्चाऽत्यल्पक्षमत्वयुतानि सन्ति बोधकरणे । इन्द्रिय-मनोजन्यो बोधो हि यद्यपि नो वास्तविकः प्रतिभाति तथाऽपि सोऽतीव तुच्छो विकृतश्च भवति । सोदाहरणं पश्यामश्चेत् - यद्येकं जलबिन्दुं वयं स्वीयनेत्राभ्यां पश्येम तदा स केवलं पारदर्शको निर्जीवः स्वच्छश्चेत्येतावन्मात्रो बोधो भवति । किन्तु यदा तमेव जलबिन्दुं वयं सूक्ष्मदर्शकयन्त्रेण पश्येम तदा किं स्यात् ? सहस्रशो जन्तुभिर्व्याप्तः स दृश्यते ।
अथैवमेव यदा वयं चलच्चित्रं (movie) किञ्चन पश्येम तदा तद् सर्वथा वास्तविकं प्रतिभाति ।
३६