Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 17
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जातः । ततो विपद्यैशाने मध्यमायुर्देवो भूत्वा ततश्च्युत्वा मन्दिरग्रामेऽग्निभूतिनामा द्विजोऽभवत् । तत्राऽपि षट्पञ्चाशत्पूर्वलक्षायुष्कस्त्रिदण्डी भूत्वा विपद्य सनत्कुमारे मध्यमायुर्देवो बभूव । ततश्च्युत्वा श्वेताम्बीपुर्यां भारद्वाजनामा द्विजश्चतुश्चत्वारिंशत्पूर्वलक्षायुस्त्रिदण्डी भूत्वा विपद्य माहेन्द्रकल्पे मध्यमस्थितिर्देवो जातः । ततश्च्युत्वा भवं भ्रान्त्वा राजगृहे स्थावराख्यश्चतुस्त्रिंशत्पूर्वलक्षायुष्कस्त्रिदण्डी भूत्वा विपद्य ब्रह्मलोके मध्यमायुः सुरो भूत्वा च्युत्वा बहून् भवानाट । इतश्च राजगृहे विश्वनन्दीनामा नृपो बभूव । तस्य प्रियङ्ग नाम्न्यां पत्न्यां विशाखनन्दी नाम पुत्रोऽभवत् । तस्य नृपस्याऽनुजो विशाखभूतिर्युवराजोऽभूत् । तस्य च युवराजस्य धारिणी नाम पत्नी बभूव। मरीचिजीवश्च प्राक्कृतसुकृतप्रभावात् तस्य युवराजस्य तस्यां पत्न्यां विश्वभूतिनामा सुतोऽभूत् । स च प्राप्तयौवनो विश्वभूतिः पुष्पकरण्डके वने नन्दने सुरकुमार इव सान्तःपुरो रेमे । राजपुत्रो विशाखनन्दी च क्रीडेच्छया वनाद् बहिरस्थात् । दास्यश्च पुष्पाद्यर्थं तत्र गतास्तौ तथा स्थितौ ददृशुः । प्रियङ्गश्च तद्वृत्तान्तं ताभ्यो दासीभ्यो ज्ञात्वा कुपिता कोपगृहं जगाम । तदिष्टार्थं साधयितुं नृपोऽपि यात्राभेरीमवादयत् । तथा पुरुषसिंहः सामन्त उद्धत इति तत्साधनाय यास्यामीति सभायां कपटेनोवाच । तच्छ्रुत्वा च विश्वभूति: सरलमतिर्वनादेत्य नृपं प्रणम्य भक्त्या निवार्य स्वयं प्रयाणमकरोत्। गत्वा च पुरुषसिंहं निदेशवर्त्तिनं ज्ञात्वा बलित्वा पुष्पकरण्डकं वनं प्राप। दशमं पर्व - प्रथमः सर्गः तत्र द्वारपालेन 'विशाखनन्दी वनमध्येऽस्ती'ति निवेदितोऽचिन्तयत्-'माययाऽहं पुष्पकरण्डकादाकृष्टः' । ततः क्रुद्धः समुष्ट्या कपित्थं हत्वा तत्फलैरावृतां महीं दर्शयन् द्वा:स्थं जगाद-'भवतां सर्वेषां शिरांसि पातयामि, यदि ज्येष्ठे ताते मम भक्तिर्न भवेत् । किन्त्वीदृग्वञ्चनाप्रधानैर्भोगैर्ममाऽलमि'ति ब्रुवन् स गत्वा सम्भूतिमुनिपार्वे व्रतं गृहीतवान् । तं प्रव्रजितं श्रुत्वा नृपः सानुजो गत्वा नत्वा क्षमयित्वा च राज्याय प्रार्थयते स्म । किन्तु विश्वभूतिं निरीहं ज्ञात्वा च नृपो गृहं जगाम । स च गुरुणा सहाऽन्यत्र विजहार । अथ स तप:कृशो गुर्वनुज्ञयैकाकी विहरन् मथुरा नगरी प्राप। तदानीं च विशाखनन्दी मथुरानृपसुतां परिणेतुं तत्राऽऽययौ । विश्वभूतिश्च मासान्तपारणाय नगरी प्रविश्य शिबिरसमीपमागतः । विशाखनन्दी च तं द्विषमिव दृष्ट्वाऽकुप्यत् । तदानीमेव चैकया गवा प्रक्षिप्तो विश्वभूतिरपतत् । तं तथाभूतं दृष्ट्वा च विशाखनन्दी 'क्व ते कपित्थपातनबलमि'त्युपजहास । ततः कोपाद् विश्वभूतिएँ शृङ्गयोगृहीत्वा भ्रमयन् 'अस्य मृत्यवे भवान्तरेऽनेन तपसा भूयिष्ठबलो भूयासमिति निदानमकरोत् । तदनालोच्यैव च कोटिवर्षायुरतीत्य विपद्य महाशुक्रे उत्तमायुः सुरोऽभवत् । *** इतश्चाऽत्रैव भरते पोतनपुरे रिपुप्रतिशत्रुर्नाम नृपोऽभूत् । तस्य भद्राख्यायां पल्यां चतुःस्वप्नसूचितोऽचलो नाम बलभद्रः पुत्रो मृगावती नाम पुत्री च बभूवतुः । सा प्राप्तयौवनाऽप्रतिमरूपा पितरं प्रणन्तुं गता । नृपश्च तामवलोक्य जातानुरागस्तां निजक्रोडे कृत्वा तत्पाणिग्रहणोपायं विचिन्त्य व्यसृजत् । ततो नगरवृद्धानाहूय नृपः

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147