Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१६२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः यद्यद्याऽहं तत्राऽभविष्यं तदा तांश्चार्वशिक्षयिष्यम्" । एवं विकल्पैविप्रीतः प्रसन्नचन्द्रो व्रतं विस्मृत्य नृपंमन्यो मनसैव मन्त्रिभिर्योv प्रवृत्तः श्रेणिकेनाऽऽगत्य वन्दितः । तथा सद्ध्यानवानयमिति ध्यायन् श्रेणिको गत्वा प्रभुं नत्वाऽपृच्छत्-"मया यदा प्रसन्नचन्द्रो ध्यानस्थो वन्दितस्तदानीं मृतः स कां गति गच्छेत्" । सप्तमं नरकं गच्छेदिति प्रभुणोक्तश्च स दध्यौ-"साधोर्न कदाऽपि नरकः, तन्मम श्रवणे त्रुटि:" । अथ क्षणान्तरं स भूयः प्रभुं पप्रच्छ-"अधुना चेत् स प्रसन्नचन्द्रो म्रियेत तदा क्व गच्छेत् ?" ततः सर्वार्थसिद्धं गच्छेदिति प्रभुः प्रत्युवाच ।
ततः श्रेणिकः पुनद्विधा किमुत्तरमिति प्रभुं पप्रच्छ । ततो वीरजिन उवाच-'ध्यानभेदेन द्विधोत्तरम् । तव वन्दनकाले दुर्मुखवचसा क्रुद्धः प्रसन्नचन्द्रो मनसा मन्त्र्याधैर्युध्यमानो नरकयोग्य आसीत् त्वय्यत्राऽऽगते च स्वान्यस्त्राणि भग्नानि मत्वा शिरस्त्रेण रिपुं हन्मीति करेण लुञ्चितं मस्तकं स्पृशन् स्मृतव्रतोऽकार्यं मया चिन्तितम् । एवं स्वं निन्दित्वा कृतालोचनप्रतिक्रमण: शुभध्यानं प्राप्तस्तव द्वितीयप्रश्नकाले सर्वार्थसिद्धियोग्यो जातः" । तत्राऽन्तरे च प्रसन्नचन्द्रसमीपे देवदुन्दुभिध्वानद्विगुणितो महान् कोलाहलो बभूव । किमिदमिति श्रेणिकेन पृष्टश्च प्रभुरुवाच-"ध्यानविशेषस्थस्य तस्य प्रसन्नचन्द्रस्य केवलमुत्पन्नम् । देवास्तत्केवलमहिमानं कुर्वन्ति" ।
दशमं पर्व - नवमः सर्गः प्रभुरुवाच-"अस्मिन्नेव केवलमुच्छेदं यास्यति" । ततो देवेषु केवलं स्यात् किमिति श्रेणिकेन पुनः पृष्टो वीरजिन उवाच-"अयं देवश्च्युत्वा सप्तमे दिने त्वन्नगरवासिन ऋषभदत्तश्रेष्ठिनः पुत्रो भविष्यति । अनन्तरं चाऽयं मम शिष्यस्य सुधर्मणो जम्ब्याख्यः शिष्यो भूत्वा केवलं प्राप्स्यति" । ततः श्रेणिकः पप्रच्छ'सन्निहितच्यवनोऽप्यसौ कुतोऽमन्दतेजा: ?" । ततः प्रभुरुवाच"अधुनाऽयं देवोऽमन्दतेजाः । पुराऽस्य पूर्वपुण्यैरुत्कृष्टं तेजो भवति" । एवमुक्त्वा प्रभुर्धर्मदेशनां चकार ।
अथ तदानीं कश्चित् कुष्टस्तत्राऽऽगत्य नत्वोपविश्य प्रभोः पादौ स्वपूयरसेन चन्दनेनेव निःशङ्कं पूजयामास । तद् दृष्ट्वा कुपित: श्रेणिको 'वध्योऽयं पापीयानि ति दध्यौ । अत्राऽवसरे च जिनेशेन क्षुते म्रियस्वेति श्रेणिकेन क्षुते च जीवेति चाऽभयकुमारेण क्षुते जीव म्रियस्व वेति कालसौकरिकेण क्षुते मा जीव मा मृथा इति च स कुष्टिक: प्रोवाच । ततो जिनं प्रति म्रियस्वेति गिरा रुष्टः श्रेणिकः स्वान् भटानित उत्थितोऽयं कुष्ठिको ग्राह्य इत्यादिशत् । कुष्ठिकश्च देशनान्ते वीरजिनं नत्वोत्थितः श्रेणिकभटैभिल्लैः शूकर इव रुद्धः सद्यो दिव्यरूपधरो वियत्युत्पपात । श्रेणिकश्च तज्ज्ञात्वा विस्मितः कः स कुष्ठीति प्रभुं द्वितीयदिने पप्रच्छ । ततः प्रभुरुवाच-'स देवः'। ततः श्रेणिकः प्रभुं कथमसौ कुष्ठी बभूव, किं कारणमत्रेति पप्रच्छ।
अथ वीरप्रभुरुवाच-"विश्वविश्रुतायां कौशाम्ब्यां नगर्या शतानीको नृपोऽभूत् । तस्यामेव नगर्यां सेडुको नामाऽतिदरिद्रः परममूर्खश्च द्विजोऽभूत् । अन्यदा गर्भिण्या भार्यया प्रसवार्थं घृतानयनाय प्रेरितो द्विजः स उवाच-'मूर्खस्य मम क्वाऽपि कोऽपि
अथ श्रेणिकः प्रभुं पुन: पप्रच्छ-"इह केवलज्ञानं क्व व्युच्छेत्स्यति ?" तदानीमेव च ब्रह्मलोकेन्द्र सामानिको देवीचतुष्टयसहितो विद्युन्माली प्रभुं नन्तुं समाजगाम । तं दर्शयन्

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147