Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 109
________________ १८९ १८८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः स चौरो यावत् सुरो जातोऽस्मि किमहमिति तर्कयामास तावत् तैः सङ्गीतकं प्रारेभे । ततश्चैकेन पुरुषेण स्वर्णदण्डधारिणाऽऽगत्य 'भोः ! सहसा किमेतदारब्धमि"ति निवारितास्ते ऊचुः“भो ! द्वारपाल ! निजस्वामिन इदं स्वकौशलं प्रदर्शयितुं सङ्गीतक मारब्धम्" । ततः स पुरुष उवाच-"स्वप्रभोः स्वकौशलं दर्श्यताम्। किन्त्वस्य देवलोकसमाचारः सम्पादनीयः" । तैः कीदृगाचार इति पृष्टश्च स पुरुषः साक्षेपमुवाच-"तदेतद् विस्मृतं किं भवद्भिः ? यो देव इहोत्पद्यते स स्वकृते सुकृत-दुष्कृते समाख्याति पश्चात् स्वर्गभोगाननुभवति" । ततस्तै: "स्वामिलाभेनैतद् विस्मृतं, तन्नः प्रसीद। देवलोकसमाचारो देवेन सम्पादनीय" इत्यूचे । ततः पुरुषो रौहिणेयमुवाच-"देव ! पुराकृते स्वशुभा-ऽशुभे ब्रूहि, पश्चात् स्वर्गभोगान् भुक्ष्व" । ततः स चौरो दध्यौ-"किमीदृशमेतत् सत्यम् ? अथवाऽभयेन मां ज्ञातुमेवैष प्रपञ्चो रचितोऽस्ति ? तदेतत् कथं ज्ञेयम्" एवं ध्यायतश्च तस्य कण्टकाकर्षणकालश्रुतं प्रभुवचनं स्मृतम् । ततः स दध्यौ-"यदि वीराख्यातं देवस्वरूपं संवदिष्यति तदा सत्यं कथयिष्यामि, नो चेदन्यथोत्तरं दास्यामि" । एवं विचार्य स चौरस्तान् स्वेदमलिनान् म्लानमाल्यान् भूमिस्पृशः सनिमिषेक्षणान् दृष्ट्वा तत् सर्वं कपटं ज्ञात्वोत्तरं चिन्तयंस्तेन पुरुषेण पुनः प्रेरितश्चोवाच-"मया पूर्वजन्मनि सुपात्रे दानं दत्तं, चैत्यानि कारितानि, तेषु बिम्बानि प्रतिष्ठापितानि, तीर्थयात्रा विहिता, गुरव उपासिताश्च । एवमादिकं सदनुष्ठानं कृतम्" । ततो दण्डभृता दुश्चरित्रमपि कथयेति प्रेरितश्च स रौहिणेयः पुनरुवाच-“साधुसमुपासकेन मया कदाऽपि किमप्यनुचितं दशमं पर्व - एकादशः सर्गः नाऽऽचरितम्" । ततो द्वारपाल उवाच-"जन्मैकस्वभावेन न व्यत्येति, तच्चौर्य-परस्त्रीसङ्गमादिकं शंस" । ततः स रौहिणेय उवाच"किमेवं पृच्छसि ? अनुचिताचारः पुमान् स्वर्ग प्राप्नुयात् किम् ?" ततस्तैर्गत्वा सर्वं वृत्तमभयकुमाराय निवेदितम् । ततोऽभयो नृपमुवाच-"एवंविधैरुपायैश्चौरो ज्ञातुं न शक्यते, ततः स विमोक्तव्यः। नीतिर्लवितुं न शक्यते" । ततो नृपादेशादभयश्चौरममुचत् । अथ स चौरो दध्यौ-"मम पितुरादेशं धिक्, येन प्रभुवचनामृताच्चिरं वञ्चितोऽस्मि । प्रभोस्तद्वचनश्रवणादेव मम मोक्षो जातः । अन्यथा विविधताडनादिना मारितस्य मम यमगृहगमनमेव भवेत् । अकामेनाऽपि गृहीतेन प्रभुवचसा मम रोगिणो भेषजेनेव प्राणत्राणं जातम् । तत्त्यक्तार्हद्वचनस्य चौरवचोरतस्य मम जीवनं धिक् । यस्यैकस्याऽप्युपदेशस्यैवं फलं साकल्येन तत्सेवने कीदृशं फलं भविष्यति ?" एवं विचार्य स प्रभोरन्तिकं गत्वा रौहिणेयो भक्त्या प्रणम्य स्तुत्वा स्वस्य प्रभुवचनवैमुख्यं निन्दित्वा भवोदधौ निमज्जन्तं मां त्रायस्वेति प्रार्थयामास । ततः प्रभुस्तस्य मोक्षजननीं विशुद्धां यतिधर्मदेशनां चकार । तेन च प्रबुद्धो रौहिणेयः प्रणमन् यतिधर्मयोग्योऽस्मि न वेति प्रभुं पप्रच्छ । योग्योऽसीति प्रभुणोक्तश्च व्रतं ग्रहीष्यामीति प्रतिज्ञाय श्रेणिकमुवाच-"देव ! भवद्भिर्यो रौहिणेयः श्रुतः स भवन्नगरमोषकोऽहमेवाऽस्मि । प्रभुवचनेनैकेन मयाऽभयकुमारस्य बुद्धि वा नदीवोत्तीर्णा । तदन्यस्तस्करो न मृग्यः । कमपि पुरुषं प्रेषय, यथा लोखं दर्शयित्वाऽहं प्रव्रजिष्यामि" । ततोऽभय उत्थाय कौतुकिपौरलोकसहितश्चौरेण सह जगाम । ततः स चौरोऽभयस्य गिरि-नदी-कुज-श्मशानादिषु निखातं सर्वं


Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147