Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 114
________________ १९८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वह्निरेव शमनम् । तदन्यवह्निना वह्निप्रदीपनं शमनीयम्" । राज्ञा च तथाकृते प्रदीपनमशाम्यत् । ततः प्रद्योतेन दत्तं तृतीयं वरं चाऽभयः पूर्ववदेव न्यासीचकार । अन्यदा चाऽवन्त्यां महत्यमङ्गले समुत्थिते तदुपशमाय प्रद्योतेन पृष्टोऽभयकुमार आह-"सर्वा देव्यो विभूषिताः सभायामागच्छन्तु, तासु या भवन्तं दृष्ट्या जयति सा मम कथनीया" । तथैव कृते च नृपः केवलं शिवया देव्या विजितः । तच्चाऽभयाय नृपः कथयामास ।। ततोऽभय उवाच-"देवी शिवा स्वयं रात्रौ कूरबलिना भूतानां पूजनं करोतु, यद्यद् भूतं च शृगालीरूपेणोत्तिष्ठद्वासितं करोति, देवी शिवा तस्य तस्य मुखे स्वयं कूरबलि ददातु" । ततः शिवादेवी तथैव चकार । तेन चाऽमङ्गलमुपशान्तम् । तत: प्रद्योतेन चतुर्थे वरे दत्तेऽभयोऽयाचत-"त्वयि नलगिरौ गजे निषादिनि सति शिवाङ्कस्थोऽहमग्निभीरुश्च दारुरचितां चितां प्रविशामि" । ततो विषण्णः प्रद्योतस्तद्वरं दातुमक्षमः प्राञ्जलिरभयं विससर्ज । ततोऽभयः प्रत्यजानात्-"त्वया च्छलादहमत्राऽऽनीतः। त्वां तु दिन एव नगरमध्ये रटन्तमहं नेष्यामि" । ततोऽभयकुमारो राजगृहं गत्वा कञ्चित्कालं कथमपि तस्थौ । अथाऽभयकुमारो रूपवत्यौ द्वे गणिकापुत्र्यावादाय वणिग्वेषोऽवन्तीं गत्वा राजमार्गे गृहमादाय तत्राऽवसत् । मार्गे गच्छता प्रद्योतेन च ते बालिके दृष्टे । ताभ्यां च प्रद्योतः सविलासं दृष्टः । ततो रागिणा प्रद्योतेन गृहं गत्वा प्रेषिता दूती ते अनुनयन्ती ताभ्यां कोपाद् गृहाद् निःसारिता । द्वितीये दिने चाऽपि नृपाय तया दूत्याऽनुनीयमानाभ्यां ताभ्यां सा दूतिका सक्रोधमपमानिता । ततस्तृतीय दशमं पर्व - एकादशः सर्गः दिवसेऽपि तया दूत्या प्राथिते ते ऊचतु:-"आवयोः सदाचारो भ्राताऽस्ति, स एव नौ रक्षति, तत्सप्तमे दिने तस्मिन् मम भ्रातरि बहिर्गते नृपो गुप्त इहाऽऽगच्छतु, ततः सङ्गमो भविष्यति" । इतश्चाऽभयेन प्रद्योतसदृश एको निजपुरुष उन्मत्तः कृतः । तस्य प्रद्योत इत्याख्यां च चकार । लोके च "ममेदृशो भ्राता यत्र तत्र भ्राम्यन् रक्षणीयो मया । हा किं करोमी"त्यवदत् । तथा तं वैद्यगृहनयनकपटेन प्रतिदिनं बही रटन्तं मञ्चकस्थमार्त्तमिव निनाय । स चाऽभयेन नीयमानश्चतुष्पथे उन्मत्तः प्रद्योतोऽहमनेन हिये इत्युच्चैरश्रुमुख: पूच्चकार । सप्तमे दिने च नृपो गुप्त एकाक्येव कामार्त्तस्तत्र गतोऽभयपुरुषैर्बद्धोऽभयेन वैद्यगृहमसौ नीयते इति वादिना पर्यड्रेन सहैव दिने पुरमध्ये पूत्कुर्वन् हतः । पुरैव क्रोशे क्रोशे स्थापितै रथैश्चाऽभयो राजगृहे पुरे प्रद्योतमनयत् । ततोऽभयः प्रद्योतं श्रेणिकस्य पुरस्ताद् निनाय । श्रेणिकश्च खड्गमाकृष्य तं प्रति दधावे । ततोऽभयकुमारेण बोधितः श्रेणिको वस्त्राभरणैः सम्मान्य मुदा प्रद्योतं व्यसृजत् । अथाऽन्यदा कश्चित् काष्ठभारिको विरक्तो गणधरस्य सुधर्मस्वामिन: पार्वे प्रव्रजितः । स च नगरे विहरन् पौरैः पूर्वावस्थोद्घाटनपूर्वकं भर्त्तितो निन्दितश्च तदपमानं सोढुमधीरोऽन्यतो विहरतेति गुरुं सुधर्मस्वामिनमुवाच । ततोऽन्यत्र विहारार्थं सुधर्मस्वामिना पृष्टोऽभयः कारणं पृच्छन् तत्कारणं ज्ञापितः प्रणम्योवाच-"दिनमेकं प्रतीक्षन्तामूर्ध्वं च यथेष्टं कुर्वताम्" । एवमुक्त्वा च स राजकुलाद् रत्नानां कोटित्रयं बहिरानीय "लोका एतां रत्नकोटि दास्यामि, तदागच्छते'ति पटहेन नगरे घोषयामास । तत: सर्वे जनाः समाजग्मुः।

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147