________________
१९८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वह्निरेव शमनम् । तदन्यवह्निना वह्निप्रदीपनं शमनीयम्" । राज्ञा च तथाकृते प्रदीपनमशाम्यत् । ततः प्रद्योतेन दत्तं तृतीयं वरं चाऽभयः पूर्ववदेव न्यासीचकार । अन्यदा चाऽवन्त्यां महत्यमङ्गले समुत्थिते तदुपशमाय प्रद्योतेन पृष्टोऽभयकुमार आह-"सर्वा देव्यो विभूषिताः सभायामागच्छन्तु, तासु या भवन्तं दृष्ट्या जयति सा मम कथनीया" । तथैव कृते च नृपः केवलं शिवया देव्या विजितः । तच्चाऽभयाय नृपः कथयामास ।।
ततोऽभय उवाच-"देवी शिवा स्वयं रात्रौ कूरबलिना भूतानां पूजनं करोतु, यद्यद् भूतं च शृगालीरूपेणोत्तिष्ठद्वासितं करोति, देवी शिवा तस्य तस्य मुखे स्वयं कूरबलि ददातु" । ततः शिवादेवी तथैव चकार । तेन चाऽमङ्गलमुपशान्तम् ।
तत: प्रद्योतेन चतुर्थे वरे दत्तेऽभयोऽयाचत-"त्वयि नलगिरौ गजे निषादिनि सति शिवाङ्कस्थोऽहमग्निभीरुश्च दारुरचितां चितां प्रविशामि" । ततो विषण्णः प्रद्योतस्तद्वरं दातुमक्षमः प्राञ्जलिरभयं विससर्ज । ततोऽभयः प्रत्यजानात्-"त्वया च्छलादहमत्राऽऽनीतः। त्वां तु दिन एव नगरमध्ये रटन्तमहं नेष्यामि" । ततोऽभयकुमारो राजगृहं गत्वा कञ्चित्कालं कथमपि तस्थौ ।
अथाऽभयकुमारो रूपवत्यौ द्वे गणिकापुत्र्यावादाय वणिग्वेषोऽवन्तीं गत्वा राजमार्गे गृहमादाय तत्राऽवसत् । मार्गे गच्छता प्रद्योतेन च ते बालिके दृष्टे । ताभ्यां च प्रद्योतः सविलासं दृष्टः । ततो रागिणा प्रद्योतेन गृहं गत्वा प्रेषिता दूती ते अनुनयन्ती ताभ्यां कोपाद् गृहाद् निःसारिता । द्वितीये दिने चाऽपि नृपाय तया दूत्याऽनुनीयमानाभ्यां ताभ्यां सा दूतिका सक्रोधमपमानिता । ततस्तृतीय
दशमं पर्व - एकादशः सर्गः दिवसेऽपि तया दूत्या प्राथिते ते ऊचतु:-"आवयोः सदाचारो भ्राताऽस्ति, स एव नौ रक्षति, तत्सप्तमे दिने तस्मिन् मम भ्रातरि बहिर्गते नृपो गुप्त इहाऽऽगच्छतु, ततः सङ्गमो भविष्यति" ।
इतश्चाऽभयेन प्रद्योतसदृश एको निजपुरुष उन्मत्तः कृतः । तस्य प्रद्योत इत्याख्यां च चकार । लोके च "ममेदृशो भ्राता यत्र तत्र भ्राम्यन् रक्षणीयो मया । हा किं करोमी"त्यवदत् । तथा तं वैद्यगृहनयनकपटेन प्रतिदिनं बही रटन्तं मञ्चकस्थमार्त्तमिव निनाय । स चाऽभयेन नीयमानश्चतुष्पथे उन्मत्तः प्रद्योतोऽहमनेन हिये इत्युच्चैरश्रुमुख: पूच्चकार । सप्तमे दिने च नृपो गुप्त एकाक्येव कामार्त्तस्तत्र गतोऽभयपुरुषैर्बद्धोऽभयेन वैद्यगृहमसौ नीयते इति वादिना पर्यड्रेन सहैव दिने पुरमध्ये पूत्कुर्वन् हतः । पुरैव क्रोशे क्रोशे स्थापितै रथैश्चाऽभयो राजगृहे पुरे प्रद्योतमनयत् । ततोऽभयः प्रद्योतं श्रेणिकस्य पुरस्ताद् निनाय । श्रेणिकश्च खड्गमाकृष्य तं प्रति दधावे । ततोऽभयकुमारेण बोधितः श्रेणिको वस्त्राभरणैः सम्मान्य मुदा प्रद्योतं व्यसृजत् ।
अथाऽन्यदा कश्चित् काष्ठभारिको विरक्तो गणधरस्य सुधर्मस्वामिन: पार्वे प्रव्रजितः । स च नगरे विहरन् पौरैः पूर्वावस्थोद्घाटनपूर्वकं भर्त्तितो निन्दितश्च तदपमानं सोढुमधीरोऽन्यतो विहरतेति गुरुं सुधर्मस्वामिनमुवाच । ततोऽन्यत्र विहारार्थं सुधर्मस्वामिना पृष्टोऽभयः कारणं पृच्छन् तत्कारणं ज्ञापितः प्रणम्योवाच-"दिनमेकं प्रतीक्षन्तामूर्ध्वं च यथेष्टं कुर्वताम्" । एवमुक्त्वा च स राजकुलाद् रत्नानां कोटित्रयं बहिरानीय "लोका एतां रत्नकोटि दास्यामि, तदागच्छते'ति पटहेन नगरे घोषयामास । तत: सर्वे जनाः समाजग्मुः।