________________
१९६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वारितोऽस्मि । अधुनाऽऽवयोरेकचैव स्थितयोर्योगोऽस्तु । काले त्वां हरिष्यामि" । एवं स्वयं दूत्येन स्वमनोरथं मधुरं जल्पतोस्तयोर्मनोयोगवद् वपुर्योगोऽप्यभूत् । वासवदत्ताया विश्वासपात्रं धात्री दासी काञ्चनमालैवैका तयोश्चरित्रं विवेद । तयैव चैकया सेवमानौ तावन्येनाऽज्ञातदाम्पत्यो कालमतिवाहयामासतुः ।
अन्यदा चोद्यापनिकार्थं प्रद्योतः सान्तःपुरपरिवारः सपौरश्चोद्यानं प्रति चचाल । तदानीं च मन्त्री यौगन्धरायणो वत्सराजस्य मोक्षणोपायं चिन्तयन् मार्गे परिभ्रमन् स्वबुद्धिदष प्रकटयन् पपाठ"यदि तां च तां च तामायतलोचनां च नृपस्याऽर्थे न हरामि तदा नाऽहं यौगन्धरायणः" । प्रद्योतश्च गच्छन् तद्वाचं श्रुत्वा दुष्कटाक्षेण तमवलोकितवान् । यौगन्धरायणोऽपीङ्गितज्ञोऽवन्तीशं कुपितं विवेद । ततः स कौशाम्बीशपक्षपातित्वमात्मनोऽपाकुर्वन्निदमुपायं चकार-"अधोवस्त्रं मुक्त्वोर्ध्वस्थ: प्रेत इव विकृताकारो मूत्रयन् स्वस्य भूताविष्टत्वं व्यञ्जयामास" । ततो नृपः पिशाचकी कश्चिदसाविति मत्वा कोपं त्यक्त्वोद्यानं गत्वा गान्धर्वगोष्ठीमारभ्य नवं गान्धर्वकौशलं द्रष्टुं कौतुकाद् वत्सराजं वासवदत्तां चाऽऽजुहाव ।
तदानीं चोदयनो वासवदत्तामुवाच-"वेगवतीमिभीमारुह्याऽऽवयोर्गन्तुं कालोऽयम्" । ततो वासवदत्ता वेगवतीमिभी सद्य आनाययामास । सा हस्तिनी च कक्षायां बद्धमानायामुच्चै ररास । तद्रसितं श्रुत्वा चाऽन्धो मौहूर्तिक उवाच-"यदा कक्षायां बध्यमानायां हस्तिनी रसति । तेन सा योजनशतं गत्वा मरिष्यति" । तत उदयनाज्ञया वसन्तको हस्तिपक इभ्या द्वयोः पार्श्वयोश्चतस्त्रो मूत्रघटिका अबध्नात् । तत उदयनो घोषवती वीणापाणिर्वासवदत्ता काञ्चनमाला वसन्तश्च तामिभीमारुरुहुः । यौगन्धरायण
दशमं पर्व - एकादशः सर्गः श्चाऽप्यागत्य हस्तसंज्ञया याहि याहीत्युदयनं प्रेरयामास । उदयनोऽपि च गच्छन्नुवाच-"वासवदत्ता काञ्चनमाला वसन्तको वेगवती घोषवती वत्सराजश्चेत्यमी यान्ति"। ततो वत्सराजो वेगेनेभी प्रेरयन्नात्मानमलोपितक्षत्रियव्रतं ज्ञापयामास ।
अथ प्रद्योत उदयनं पञ्चभिः सह गतं ज्ञात्वा क्रोधात् करावाप्रेडयन् नलगिरि गजं सज्जीकृत्य महाभटैराश्रितमुदयनस्य पृष्ठतः प्रेरयामास । योजनानां पञ्चविंशतावतीतायां च स गज उदयनेन समीपस्थो दृष्टः । ततः स एकां मूत्रघटीं पृथिव्यां स्फोटयित्वा प्राग्वदेवेभी तां प्रेरयामास । गजश्च तद्घटीमूत्रं जिघ्रन् क्षणं तस्थौ। पुनः प्रेर्यमाणः कष्टेनाऽग्रं चचाल । उदयनश्च मार्गे तत्र तत्राऽन्या अपि मूत्रघटी: स्फोटयित्वा नलगिरेगतिमरौत्सीत् । योजनानां शतं गत्वा च वत्सराजः कौशाम्बी प्रविवेश परिश्रान्ता सा करेणुश्चाऽम्रियत । यावच्च नलगिरिमूत्रं जिघ्रन्नग्रे न चचाल तावत् कौशाम्बीशसेना तत्र योद्धमभ्याजगाम । ___ततो हस्तिपका महाभटा नलगिरिं वालयित्वा यथाऽऽगतेन मार्गेण पुनरुज्जयिनी जग्मुः । ततः सैन्यारम्भं कुर्वन् प्रद्योतो भक्तैः कुलामात्यैयुक्तिपूर्वकं वारितः। ते मन्त्रिण ऊचुः-"देव ! कन्या यस्मै कस्मैचिद् देयैव । तत्र वत्सराज उत्तमोत्तमो जामाता । वासवदत्ता च स्वयंवरा तं स्वयं स्वीकृतवती। तत्सैन्यारम्भेणाऽलम् । वासवदत्तायास्तं कौमारहरं वरमनुमन्यस्व" । एवं तैः प्रबोधित: प्रद्योतो हृष्टो वत्सराजाय जामातृभावोचितं वस्तुजातं प्रेषयामास ।
अन्यदा चाऽवन्त्यां निरन्तरं वह्निप्रदीपनं जातम् । प्रद्योतेन तत्प्रतीकारं पृष्टचाऽभयकुमार उवाच-"विषस्य विषमिव वह्न