________________
१९४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दृग्विषः सोऽस्ति, भस्त्रायामुद्घाटितायामसौ नियतं दग्ध: स्यात् । तस्माद् वने पराङ्मुखोऽसौ मोक्तव्यः" । एवमभयेन कथिते तथैव मुक्त: सर्पः, तेन च वृक्षा दग्धाः, स सर्पश्च मृतः । ततः प्रसन्नेन प्रद्योतेन बन्धनमोक्षणं विना वरं याचस्वेत्युक्तोऽभयः सम्प्रति मे वरो न्यासीभूतोऽस्त्वित्युवाच ।।
इतश्च प्रद्योतस्याऽङ्गारवत्यां भार्यायां वासवदत्ता नाम सुता लक्ष्मीतुल्याऽऽसीत् । सा धात्रीभिाल्यमाना क्रमेण वर्धमाना राजगृहाङ्गणे रेमे । नृपश्च सम्पूर्णलक्षणां तां पुत्रादप्यधिकां मेने । सा सकलकलाकलापकुशला गुरोरभावाद् गान्धर्ववेदं न ज्ञातवती । ततः प्रद्योतेन राजपुत्रीणां पतिगृहे गान्धर्वकलैवोपयोगिनीति विचार्य मत्सुताया गान्धर्वाध्यापक: को नाम भावीति पृष्टः सचिव उवाच'सम्प्रत्युदयनो नृपो गान्धर्वनिपुणोऽस्ति, स हि गीतेन मोहयित्वा गजान् वने बध्नातीति श्रूयते । तस्य बन्धनेऽत्राऽऽनयने चैष उपाय:-'वने सत्यगज इव किलिजाख्यकाष्ठैर्गजो विधातव्यः । यन्त्रप्रयोगेण च तस्य चलनासनादिका क्रिया सम्पादनीया । तत्किलिञ्जहस्तिमध्ये च शस्त्रधारिणः स्थास्यन्ति, तं गजं चालयिष्यन्ति, तमुदयनं भन्त्स्यन्ति च । एवं बद्ध्वा स वत्सराज इहाऽऽनीतस्त्वदाज्ञया वासवदत्तां गान्धर्वं शिक्षयिष्यति" । ___ ततो राज्ञा साधु साध्वित्यनुमतो मन्त्री तथोक्तप्रकारेण सत्यगजादप्यधिकगुणं गजं चकार । वनचराश्च दन्तघातादिक्रियादिभिस्तं सत्यं गजं मत्वोदयनाय निवेदयामासुः । उदयनोऽपि च तद्बन्धनार्थं वनं जगाम । स परिवारं दूरे एव विसृज्य शनैः शनैः परिक्राम्यन् वनान्तः प्रविश्य तस्य कपटगजस्य समीपं गत्वा च गातुमुपचक्राम । यथा यथा च स मधुरं जगौ तथा तथा
दशमं पर्व - एकादशः सर्गः गजान्तःस्था: पुरुषास्तं गजं निश्चलानं चक्रुः । ततः कौशाम्बीनृपो गजं गीतमोहितं मत्वा शनैः शनैस्तत्समीपं गत्वोत्प्लुत्य तमारुरोह । ततः प्रद्योतेनाऽऽयुक्ता भटा गजोदराद् निर्गत्य वत्सराजं गजस्कन्धात् पातयित्वा निरस्त्रमेकाकिनमकृतपौरुषमबन्धयन् । तथा तैरपितं वत्सराजं प्रद्योत एकाक्षी मत्पुत्रीं गान्धर्वकलां शिक्षय, मद्गृहे सुखं तिष्ठ, अन्यथा मदायत्तं तव जीवनमित्युवाच ।
उदयनश्च कन्यामध्यापयन् कालं यापयामि, जीवन् हि नरो भद्राणि पश्यतीति विचार्य प्रद्योताज्ञामनुमेने । ततः प्रद्योतस्तं"मम पुत्री काणा, तां कदाचिद् न पश्ये:, अन्यथा सा लज्जिष्यते" इत्युक्त्वाऽन्तःपुरे गत्वा स्वपुत्रीमपि 'तव गान्धर्वगुरुरागतः, स कुष्ठीति न कदाचिदवलोकनीय" इत्युवाच । ततो वत्सराजस्तां तथैवाऽध्यापयामास । प्रद्योताज्ञया च तौ परस्परं न ददृशतुः ।
अन्यदा च वासवदत्ता गुरुं पश्यामीति विचारयन्ती शून्यचित्ताऽन्यथैवाऽपाठीत् । ततो वत्सराजस्तां तजितवान्-"काणे ! कि शास्त्रं विनाशयसि ? किं दुःशिक्षिताऽसि ?" ततस्तिरस्कारकुपिता साऽपि वत्सराजमुवाच-"मां काणां कथयसि, स्वं कुष्ठिनं कि नाऽवलोकयसि ?" ततो वत्सराजो दध्यौ-"यथाऽहं कुष्ठी तथैवेयं काणा किम् ? तदेनां पश्यामि" । एवं विचार्य स जवनिकामपसार्य सर्वाङ्गसुन्दरीं ददर्श । साऽपि च विस्मयोत्फुल्लनेत्रा सर्वाङ्गसुभगं वत्सराजं ददर्श । तेन च परस्परमनुरक्तौ तौ स्मितं चक्रतुः ।।
ततो वासवदत्तोवाच-"मां धिक्, या पित्रा प्रतारिता त्वां नाऽपश्यम् । कलाचार्य ! मयि सम्यङ् न्यस्ताः कलास्तवैवोपयोगिन्यो भवन्तु । त्वं मम भर्ता भव" । ततो वत्सराज उवाच"त्वत्पित्रैव वञ्चितोऽस्मि । त्वं काणेत्यतोऽन्तरितां कृतां त्वां पश्यन्