________________
min४३
१९२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भूदिति द्वार्येव तस्थौ। यावच्च सा मुक्ताशुक्तिमुद्रया प्रणिधानस्तुति कृत्वोत्थितवती तावत् तत्राऽभयोऽपि प्राप्तः । ततोऽभयस्तस्या भावनां वेषं प्रशमं च वर्णयित्वा तामुवाच-"भद्रे ! दिष्ट्या त्वादृशसाधर्मिकसमागमो जातः । का त्वं? किमिहाऽऽगम: ? का वासभूमिः ? इमे च के"?
ततः सा गणिकोवाच-"अहं श्रेष्ठिनो विधवा भार्या, इमे च मम पुत्रवध्वावपि विधवे व्रतार्थं पृच्छतः स्म । ततो मयोक्तं यदहमपि निर्वीरा व्रतं ग्रहीष्यामि । किन्तु तीर्थयात्रया गार्हस्थ्यफलं ग्राह्यम् । यतो व्रते भावत: पूजा युज्यते न द्रव्यतः । तदेताभ्यां सह तीर्थयात्रार्थं निर्गता" । ततोऽभयस्तामुवाच-भवत्यो ममाऽतिथीभवन्तु । साधर्मिकवात्सल्यं हि तीर्थादपि पावनम्" ।
तत: सा प्रत्युवाच "भवान् युक्तं वक्ति, किन्त्वद्य कृततीर्थोपवासाऽहं कथमतिथिर्भवामि ?" ततस्तन्निष्ठया हृष्टोऽभयः पुनस्तामुवाच-"तर्हि प्रातर्मम गृहमवश्यमागन्तव्यम्" । ततः सा पुनरुवाच-"प्राणिनो जन्म क्षणेनाऽपि समाप्यते, तत्प्रातरिदं करिष्यामीति कथं वक्तव्यम् ?" ततोऽभयः प्रातरियं निमन्त्रणीयेति विचार्य तां विसृज्य चैत्यं वन्दित्वा स्वं धाम जगाम । प्रातश्चाऽभयस्तां निमन्त्र्य चैत्यानि वन्दयित्वा भोजयित्वा प्रचुरं वस्त्रादिकमदात् ।
अथ गणिकयाऽपि निमन्त्रितोऽभय एकाक्येव तस्या आवासं गतवान् । तया च विविधैर्भोज्यै जितश्चन्द्रहाससुरामिश्रपानकानि पायितश्चाऽभयो भुक्तोत्थित एव सुष्वाप । ततः सा मायिनी गणिका तमभयं स्थाने स्थाने स्थापितेन रथेनाऽवन्तीं प्रापयामास । तत: श्रेणिकेनाऽभयान्वेषणाय नियोजिता अन्वेषकाः स्थाने स्थाने
दशमं पर्व - एकादशः सर्गः तमन्विष्यन्तस्तत्राऽऽययुः । तथा तैः किमभय इहाऽऽयात इति पृष्टा सा गणिकाऽत्र समायातोऽभयः सद्यस्तदैव गतवानित्युवाच । तद्वचोविश्वासात् तेऽन्वेषका अन्यत्र ययुः । सा गणिका चाऽपि स्थाने स्थाने स्थापितैरश्वैरवन्ती जगाम । ततः सा चण्डप्रद्योतायाऽभयकुमारं समर्पयामास, तदानयनोपायं वर्णयामास च ।
तच्छ्रुत्वा प्रद्योत उवाच-"नैवं त्वया साधु कृतं, यद् धर्मे विश्वस्तमेनं धर्मकपटेनाऽत्राऽऽनीतवती" । तथा प्रद्योतः सप्ततेः कथानां वाचकः शुको बिडाल्यवाऽनया गणिकया नीतिज्ञोऽपि त्वं गृहीतोऽसीत्यभयमुवाच । ततोऽभयस्तमुवाच-"त्वमेव बुद्धिमानसि, यस्य तवेदृश्या बुद्ध्या राजधर्मो वर्धते" । तेन च लज्जितः कुपितश्च प्रद्योतोऽभयं राजहंसमिव काष्ठपञ्जरेऽक्षिपत् ।
अथ तस्य प्रद्योतस्य राज्येऽग्निभीरुरथः, शिवादेवी, नलगिरिः, कुञ्जरो, लोहजो, लेखवाहश्च रत्नान्यभूवन् । नृपश्च लोहजङ्घ मुहुर्मुहुगुकच्छे प्रेषयामास । तद्गतागतेन पीडितास्तत्रत्या जना विचारयामासुः-"अयं दिनमात्रेण पञ्चविंशतियोजनीमायाति, अस्मान् वारंवारमाज्ञया पीडयति चेत्यमुं सम्प्रति हन्मः" । एवं विचार्य ते लोहजङ्घस्य पाथेये विषमोदकान् ददुः । तस्य पोट्टलिकायां स्थितं सर्वं शम्बलमपजहश्च । लोहजङ्घश्च कियन्तं मार्ग गत्वा नदीतटे पाथेयं भोक्तुमवस्थितवान् । ___ तदानीं च तस्याऽशकुनान्यभूवन् । शकुनज्ञस्तु सोऽभुक्त्वैवोत्थाय दूरं गत्वा पुनर्भोक्तुमुपक्रान्तः शकुनैर्वारितः । एवं भोक्तुकामः पुनः पुनः शकुनैर्वारितः क्षुधित एव गत्वा तत् सर्वं वृत्तं प्रद्योतस्य निवेदयामास । तत: प्रद्योतेनाऽऽहूय पृष्टोऽभयः शम्बलपोट्टलिकामाघ्रायोवाच-"अस्यां भस्त्रायां द्रव्यसंयोगाज्जातो