________________
१९०
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
धनं दर्शयामास । ततोऽभयो यथास्वं पौराणां तद् धनमर्पयामास । ततो रौहिणेयो निजजनान् परमार्थं कथयित्वा प्रबोध्य च श्रद्धया प्रभुसमीपं समाजगाम । ततः श्रेणिकनृपेण कृतनिष्क्रमणोत्सवः स वीरजिनपार्श्वे प्रव्रज्यां जग्राह । ततश्च कर्मच्छेदाय स चतुर्थादिकं दुष्करं तपश्चकार । तपः कृशश्च स भावसंलेखनां कृत्वा श्रीवीरजिनमापृच्छ्य पर्वते पादपोपगमनानशनं विधाय शुभध्यानस्थः पञ्चपरमेष्ठिनमस्कारं स्मरन् विपद्य दिवं ययौ । प्रभुरपि देवादिभिः सह ततोऽन्यत्र विजहार ।
***
इतश्च श्रेणिको नृपस्तस्मिन् राजगृहे नगरे सम्यक्त्वं धारयन् नीत्या राज्यं पालयामास । अन्यदा चोज्जयिनीपतिश्चण्डप्रद्योतः सर्वसामग्ग्रा सह राजगृहं रोद्धुं चचाल । लोकैर्बद्धमुकुटः प्रद्योत - श्चतुर्दशाऽन्ये नृपाश्च तत्र समागच्छन्तो दृष्टाः । श्रेणिकश्च जविभिर्हयैरागतैश्चरैस्तत् शुश्राव । ततः श्रेणिको दध्यौ - " अत्राऽऽगच्छन् प्रद्योतः कथं नष्टबलः कार्यः " । एवं ध्यात्वा सोऽभयकुमारमुखमै - क्षिष्ट । ततोऽभय उवाच - " प्रद्योतो मम युद्धातिथिर्भवेदित्यस्य न काऽपि चिन्ता । यद्वा बुद्धिसाध्ये कार्ये शस्त्राशस्त्रिकथा हेया । तबुद्धिमेव प्रयोक्ष्ये" ।
ततः सोऽभयो बाह्ये शत्रुसैन्यानामावासस्थानभूमिषु दीनारान् लौहसम्पुटे कृत्वा निखानितवान् । तथा चरैः प्रद्योतं प्रति लेखं प्रेषयामास-"शिवादेवी - चेलणयोर्न कोऽपि भेदः । तच्छिवादेवीसम्बन्धेन सर्वदा मान्योऽसि । तत्तव हितेच्छया कथयामि यत् सर्वे ते नृपाः श्रेणिकराजेन भेदिताः । तान् स्ववशगान् कर्तुं दीनारा:
दशमं पर्व एकादशः सर्गः
१९१
प्रेषिताः सन्ति । नृपाश्च तान् दीनारानादाय त्वां बद्ध्वा श्रेणिकस्याऽर्पयिष्यन्ति । तेषां कृते तदावासेषु दीनारा निखाताः सन्ति । तत् खानयित्वा प्रत्ययं कुरु" ।
तज्ज्ञात्वा च प्रद्योत एकस्य नृपस्याऽऽऽवासं खानयामास । तत्र च दीनारा लब्धाः । ततः स नृपः पलायितवान् । तस्मिन् पलायिते च श्रेणिकस्तत्सैन्यं पराभूय सर्व हस्त्यश्वादिकं जग्राह । प्राणानादाय पलायितश्च प्रद्योतो वेगिनाऽश्वेन कथमपि स्वां नगरीं प्राप । अन्ये नृपा भटाश्चाऽपि काकनाशं नेशुः । तेऽपि च प्रद्योतमनुसरन्त उज्जयिनीं प्रापुः । तत्र च तैरभयस्येयं माया न वयमन्यथाकारिण इति सशपथं प्रद्योतः प्रत्यायितः ।
ततः कदाचित् प्रद्योतः सभायामुवाच - " योऽभयं बद्ध्व ममाऽर्पयतीदृशः कोऽप्यस्ति किम् ?" ततः काऽप्येका वेश्या हस्तमुत्क्षिप्याऽहमत्र समर्थेति विज्ञापयामास । ततः प्रद्योतस्तामुवाच - "यदि त्वं सक्षमा तर्हि तत् सम्पादय । सम्प्रति किं तवाऽर्थादिसाहाय्यं करोमि तद् ब्रूहि " । ततः सा गणिका दध्यौ"अभय उपायान्तरेण न ग्राह्यः । तद्धर्मकपटमादायैव स्वेष्टं करोमि । एवं ध्यात्वा सा प्रौढे द्वे स्त्रियौ याचितवती । प्रद्योतश्च प्रभूतेन द्रव्येण सह ते ददौ । ततस्तास्तिस्रोऽपि प्रतिदिनं साध्वीरुपास्योपास्य प्रज्ञावत्यो जाताः । ततस्तास्तिस्रोऽपि श्रेणिकनृपपुरं गत्वा बाह्योद्याने वासं चक्रुः । वेश्या च चैत्यपरिपाटीं कर्तुं पत्तनस्य मध्ये गत्वा नृपकारिते चैत्ये प्रविश्य ताभ्यां सह नैषेधिकीत्रयं कृत्वा पूजां विधाय ग्रामरागपूर्वकेण वचसा देवं वन्दितुमारेभे ।
तदानीं च विवन्दिषुरभयकुमारोऽपि तत्र गतस्ताभ्यां सह गणिकां वन्दनं कुर्वतीं दृष्ट्वा "मया प्रविशताऽस्या देववन्दविघ्नो मा