________________
१८९
१८८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः स चौरो यावत् सुरो जातोऽस्मि किमहमिति तर्कयामास तावत् तैः सङ्गीतकं प्रारेभे । ततश्चैकेन पुरुषेण स्वर्णदण्डधारिणाऽऽगत्य 'भोः ! सहसा किमेतदारब्धमि"ति निवारितास्ते ऊचुः“भो ! द्वारपाल ! निजस्वामिन इदं स्वकौशलं प्रदर्शयितुं सङ्गीतक मारब्धम्" । ततः स पुरुष उवाच-"स्वप्रभोः स्वकौशलं दर्श्यताम्। किन्त्वस्य देवलोकसमाचारः सम्पादनीयः" । तैः कीदृगाचार इति पृष्टश्च स पुरुषः साक्षेपमुवाच-"तदेतद् विस्मृतं किं भवद्भिः ? यो देव इहोत्पद्यते स स्वकृते सुकृत-दुष्कृते समाख्याति पश्चात् स्वर्गभोगाननुभवति" । ततस्तै: "स्वामिलाभेनैतद् विस्मृतं, तन्नः प्रसीद। देवलोकसमाचारो देवेन सम्पादनीय" इत्यूचे ।
ततः पुरुषो रौहिणेयमुवाच-"देव ! पुराकृते स्वशुभा-ऽशुभे ब्रूहि, पश्चात् स्वर्गभोगान् भुक्ष्व" । ततः स चौरो दध्यौ-"किमीदृशमेतत् सत्यम् ? अथवाऽभयेन मां ज्ञातुमेवैष प्रपञ्चो रचितोऽस्ति ? तदेतत् कथं ज्ञेयम्" एवं ध्यायतश्च तस्य कण्टकाकर्षणकालश्रुतं प्रभुवचनं स्मृतम् । ततः स दध्यौ-"यदि वीराख्यातं देवस्वरूपं संवदिष्यति तदा सत्यं कथयिष्यामि, नो चेदन्यथोत्तरं दास्यामि" । एवं विचार्य स चौरस्तान् स्वेदमलिनान् म्लानमाल्यान् भूमिस्पृशः सनिमिषेक्षणान् दृष्ट्वा तत् सर्वं कपटं ज्ञात्वोत्तरं चिन्तयंस्तेन पुरुषेण पुनः प्रेरितश्चोवाच-"मया पूर्वजन्मनि सुपात्रे दानं दत्तं, चैत्यानि कारितानि, तेषु बिम्बानि प्रतिष्ठापितानि, तीर्थयात्रा विहिता, गुरव उपासिताश्च । एवमादिकं सदनुष्ठानं कृतम्" ।
ततो दण्डभृता दुश्चरित्रमपि कथयेति प्रेरितश्च स रौहिणेयः पुनरुवाच-“साधुसमुपासकेन मया कदाऽपि किमप्यनुचितं
दशमं पर्व - एकादशः सर्गः नाऽऽचरितम्" । ततो द्वारपाल उवाच-"जन्मैकस्वभावेन न व्यत्येति, तच्चौर्य-परस्त्रीसङ्गमादिकं शंस" । ततः स रौहिणेय उवाच"किमेवं पृच्छसि ? अनुचिताचारः पुमान् स्वर्ग प्राप्नुयात् किम् ?" ततस्तैर्गत्वा सर्वं वृत्तमभयकुमाराय निवेदितम् । ततोऽभयो नृपमुवाच-"एवंविधैरुपायैश्चौरो ज्ञातुं न शक्यते, ततः स विमोक्तव्यः। नीतिर्लवितुं न शक्यते" । ततो नृपादेशादभयश्चौरममुचत् ।
अथ स चौरो दध्यौ-"मम पितुरादेशं धिक्, येन प्रभुवचनामृताच्चिरं वञ्चितोऽस्मि । प्रभोस्तद्वचनश्रवणादेव मम मोक्षो जातः । अन्यथा विविधताडनादिना मारितस्य मम यमगृहगमनमेव भवेत् । अकामेनाऽपि गृहीतेन प्रभुवचसा मम रोगिणो भेषजेनेव प्राणत्राणं जातम् । तत्त्यक्तार्हद्वचनस्य चौरवचोरतस्य मम जीवनं धिक् । यस्यैकस्याऽप्युपदेशस्यैवं फलं साकल्येन तत्सेवने कीदृशं फलं भविष्यति ?" एवं विचार्य स प्रभोरन्तिकं गत्वा रौहिणेयो भक्त्या प्रणम्य स्तुत्वा स्वस्य प्रभुवचनवैमुख्यं निन्दित्वा भवोदधौ निमज्जन्तं मां त्रायस्वेति प्रार्थयामास ।
ततः प्रभुस्तस्य मोक्षजननीं विशुद्धां यतिधर्मदेशनां चकार । तेन च प्रबुद्धो रौहिणेयः प्रणमन् यतिधर्मयोग्योऽस्मि न वेति प्रभुं पप्रच्छ । योग्योऽसीति प्रभुणोक्तश्च व्रतं ग्रहीष्यामीति प्रतिज्ञाय श्रेणिकमुवाच-"देव ! भवद्भिर्यो रौहिणेयः श्रुतः स भवन्नगरमोषकोऽहमेवाऽस्मि । प्रभुवचनेनैकेन मयाऽभयकुमारस्य बुद्धि वा नदीवोत्तीर्णा । तदन्यस्तस्करो न मृग्यः । कमपि पुरुषं प्रेषय, यथा लोखं दर्शयित्वाऽहं प्रव्रजिष्यामि" ।
ततोऽभय उत्थाय कौतुकिपौरलोकसहितश्चौरेण सह जगाम । ततः स चौरोऽभयस्य गिरि-नदी-कुज-श्मशानादिषु निखातं सर्वं