________________
१८६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः स पाणिभ्यां की पिधाय शीघ्रं राजगृहं ययौ । एवमन्वहं गतागतं कुर्वतस्तस्य पादे समवसरणसमीपे कण्टको विद्धः । त्वरया गमनाद् गाढं विद्धं कण्टकमनुद्धृत्य स पदमपि गन्तुं न शशाक । अगत्या च स कर्णात् करमपनीय कण्टकं कर्षन् वीरप्रभोर्वचनं शुश्राव-"देवा भूतलास्पशिचरणा, अनिमिषनेत्रा, अम्लानमाल्याः, स्वेदरजोवर्जिताङ्गाः" । एवं श्रुत्वा च बहु श्रुतमिदं धिर धिगिति शीघ्रं कण्टकमुद्धृत्य पुन: कर्णं करेण पिधाय पूर्ववदेव जगाम ।
अथ प्रतिदिनं तेन चौरेण नगरे मुष्यमाणे श्रेष्ठिन आगत्य श्रेणिकनृपमूचुः-"देव ! त्वयि शासत्यस्माकमन्यद् भयं नास्ति, किन्तु चौरैर्नितरां पीडिता: स्मः" । ततस्तेषां वचसा पीडामनुभवन् नृपः सकोपं दण्डपाशिकमुवाच-"किं त्वदुपेक्षितैश्चौरैरेते परिभूयन्ते?" ततः स उवाच-"देव ! कोऽपि रौहिणेयाख्यश्चौरो नागरान् लुण्टति । दृष्टोऽपि स धर्तुं न शक्यते । स हि विद्युदिवोत्प्लुत्योत्प्लुत्य गृहाद् गृहं तत: प्राकारं च लीलयोल्लङ्घते । यावच्च मार्गे तमन्वेषयामि तावत् सोऽदृश्यो भवति । तत्तं धर्तुं हन्तुं वाऽशक्तोऽस्मि । तन्निजां दण्डपाशिकां देवो गृह्णातु" । ___ ततो नृपेण भूसंज्ञया प्रेरितोऽभयकुमारस्तं दण्डपाशिकमुवाच"चतुरङ्गसेनां सज्जीकृत्य पुराद् बहिः स्थापय । यदा च चौरो नगरे प्रविशति तत्सैन्यं नगरं वेष्टयेत् । नगरान्तस्त्रासितः स विद्युदुत्क्षिप्तकरणेन बहिःसैन्ये पाशे मृगवत् पतिष्यति । तदा सावधान: पदातिभिः स ग्रहीतव्यः" । ततो दण्डपाशिकस्तथेत्याज्ञा स्वीकृत्य निर्गत्य तथैव सज्जं चतुरङ्गसैन्यं प्रच्छन्नं चकार । तस्मिन्
दशमं पर्व - एकादशः सर्गः दिने रौहिणेयोऽपि च ग्रामान्तरं गतो रुद्धां नगरीमजानानोऽविशत् । दण्डपाशिकेन च तैरुपायैधृत्वा बद्ध्वा च स चौर आनीय नृपस्य समर्पित: । ततो नृपो न्यायानुसारेणाऽसौ निग्रहीतव्य इत्यादिशत् ।
अथाऽभयकुमार उवाच-"चौर्याप्तधनरहित एवाऽसौ धृत इति निग्रहं नाऽर्हति, तद्विचार्य निग्रहीतव्यः" । ततो नृपेण वासभूमि जीविकामागमनकारणं च नामग्राहं पृष्टः स्वनामशङ्कितः स चौरः प्रत्युवाच-"शालिग्रामवास्तव्यो दुर्गचण्डाख्योऽहं गृही प्रयोजनवशादिहाऽऽयात: कुतूहलादेकस्मिन् देवकुले रात्रि स्थित्वा स्वगृहं गच्छन्नेभिरार? राक्षसैरिवाऽऽक्षिप्तः प्राणभयात् प्राकारमलङ्घयम् । एवं निर्गतश्चाऽहं बाह्यारक्षगणेषु पतितः । ततो निरपराधोऽप्यहं चौर इव बद्ध्वाऽधुनैभिरिहाऽऽनीतोऽस्मि । तन्नीति विचारय" । ततो नृपस्तं तत्क्षणं गुप्तौ प्रेषयामास । तत्प्रवृत्तिज्ञानार्थं च तत्र ग्रामे स्वपुरुषं प्रेषयामास । तेन चौरेण च पुराऽपि स ग्राम: स्वसङ्केतं ग्राहितो भवति । तेन राजपुरुषेण तच्चौरप्रवृत्तिं पृष्टो ग्रामजन उवाच"दुर्गचण्डोऽत्र वास्तव्यः सम्प्रति ग्रामान्तरं गतोऽस्ति" । ___ अथ तत आगतेन पुरुषेण विज्ञप्तोऽभयकुमारो दध्यौ"सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति" । ततोऽभयकुमारः सप्तभूमिकं प्रासादं देवविमानमिव रत्नैः सङ्गीतकै रमणीभिश्च सज्जितं विधाय तं चौरं च मद्यपानमूच्छितं कृत्वा देवदूष्ये परिधाप्य तल्पे शाययामास । मदे समुपशान्ते चोत्थितमात्र एव स चौर आश्चर्यकरीमदृष्टपूर्वां दिव्यसम्पदं ददर्श । अत्राऽवसरे चाऽभयादिष्टैर्नरनारीसमूहैर्जय नन्देत्यादिकं मङ्गलमाघोष्य "अस्मिन् महाविमाने त्वमधुनाऽस्माकं स्वामिभूतो देव उत्पन्नोऽसि, वयं तवाऽनुचराः । एताभिरप्सरोभिः स्वैरमिन्द्रवद् रमस्वे"त्यादि चाटुगर्भ चोचे ।