________________
१८४
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
वीरजिन: शालिभद्रस्य प्राग्जन्ममातरमन्यदपि भवान्तरीयमाख्यत् । ततः शालिभद्रो दध्ना पारणं विधाय प्रभुमापृच्छ्य धन्येन सह पादपोपगमं नामाऽनशनं प्रतिपन्नवान् ।
अथ तदानीमेव भद्रा श्रेणिको नृपश्च वीरजिनं नन्तुं तत्राऽऽगतौ । तत्र भद्रोवाच- "प्रभो ! धन्य-शालिभद्रौ क्व स्तः ?" मम गृहं भिक्षार्थं कुतो न गतौ ?" ततः सर्वज्ञः प्रभुरुवाच- 'तव गृहं तौ मुनी गतौ, किन्त्वत्राऽऽगमनातुरया भवत्या तौ नोपलक्षितौ । त्वत्पुत्रस्य प्राग्जन्ममाता धन्या दधि ददौ । तेन च तौ पारणं चक्रतुः । तथा भवं छेत्तुं महासत्त्वौ तौ वैभारगिरौ गत्वाऽनशनं प्रपन्नौ स्तः" ।
ततो भद्रा श्रेणिकेन सह वैभारगिरिं गत्वा तौ प्रस्तरनिर्मिताविव स्थिरौ दृष्ट्वा तत्कष्टं पूर्वसुखं च स्मृत्वा मुक्तकण्ठं रुरोद । गृहे समागतोऽपि मया न ज्ञात इति स्वं निनिन्द च । तत्र च श्रेणिकेन विविधं बोधिता सा नृपेण सह तौ वन्दित्वा विषण्णा गृहं जगाम । तौ मुनी च विपद्य सर्वार्थसिद्धविमाने त्रयस्त्रिशत्सागरोपमायुषौ देववरावभूताम् ॥ १० ॥
इति दशमे पर्वणि दशार्णभद्र - शालिभद्र-धन्यकचरितवर्णनात्मको दशमः सर्गः ॥१०॥
एकादशः सर्गः
अथ भगवान् श्रीवीरजिनो लोकहितेच्छया ग्रामादिषु विजहार । इतश्च राजगृहस्य वैभारगिरिगुहायां लोहखुराख्यो नाम चौरोऽतिभयङ्करोऽभूत् । स नित्यं राजगृहे नागराणामुत्सवादिषु च्छिद्रं प्राप्योपद्रवं चकार । तस्य हि प्रीत्यै चौर्यमेवैका वृत्तिरभवत् । तस्य रोहिण्याख्यायां भार्यायां रूपेण कर्मणा चाऽनुरूपो रौहिणेयो नाम पुत्रोऽभवत् । लोहखुरश्च स्वमृत्युसमये प्राप्ते तं पुत्रमाहूय निजादिष्टवचनपालनप्रतिज्ञां कारयित्वा प्रहृष्टः पाणिना स्पृशन्निष्ठुरतयोवाच"योऽसौ समवसरणे स्थितो वीरो देशनां करोति तद्वचनं न श्रोतव्यम् । अन्यत्तु स्वरुचितं निरङ्कुशं कर्तुमर्हसि । एवं पुत्रमुपदिश्य स लोहखुरो विपन्नवान् । रौहिणेयश्च पितुरौर्ध्वदेहिकं विधाय चौर्यं चकार । पितुराज्ञां प्राणानिव पालयंश्च स नित्यं राजगृहनगरममुष्णात् ।
तदानीं च विहारक्रमतो वीरजिनो विभुः सपरिवारस्तत्राऽ ऽ जगाम । सुरैर्विकृते समवसरणे च प्रभुर्यथाविधि धर्मदेशनां चकार । तदानीं च रौहिणेयो राजगृहं प्रति गच्छन् मार्गमध्ये समवसरणसमीपमागतो दध्यौ "अनेन मार्गेण गमने वीरवचः श्रवणात् पितुराज्ञा विराधिता स्यात्, न चाऽन्यो मार्गो विद्यते" ।