________________
wom
२०१
२००
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततोऽभय उवाच-"यो जला-ऽग्नि-स्त्रीवर्जकस्तस्याऽयं रत्नसमूहो दीयते" । ततोऽलौकिकमिदं कर्तुं न कोऽपि क्षम इति भाषमाणेषु तेष्वभय उवाच-"यदि युष्मासु नेदृशः कश्चित् तर्हि रत्नकोटित्रयं जला-ऽग्नि-स्त्रीवर्जकाय मुनये काष्ठभारिणे एवाऽस्तु" । ततस्ते ऊचुः-"असौ मुनिरीदृशोऽस्ति । पात्रदानं युक्तम् । अस्माभिर्मुधैवाऽसौ हसितः" । ततोऽद्यप्रभृति मुनेरस्य भर्त्सनोपहासादिकं न युष्माभिविधेयमित्येवमभयादेशं स्वीकृत्य लोका जग्मुः । एवं स धीमान् पितृभक्तो निरीहो धार्मिकोऽभयः पितू राज्यं शशास ।
अन्यदा च श्रेणिकस्तमुवाच-"वत्स ! राज्यं त्वं गृहाण, अहं वीरजिनं सेविष्ये" । ततोऽभय उवाच-"भवदादेशः प्रमाणम् । किन्तु क्षणं प्रतीक्षध्वम्" । इतश्च वीरजिन उदायनं नृपं प्रव्राज्य मरुमण्डला तत्राऽऽगत्य समवार्षीत् । तज्ज्ञात्वा चाऽभयो हृष्टो गत्वा प्रभुं नत्वा भक्त्या स्तुत्वा च पुनर्नत्वा पप्रच्छ-"कोऽन्तिमो राजर्षिः ?" उदायन इति प्रभुणोक्ते च कोऽयमुदायन इति पप्रच्छ ।
तत: प्रभुरुवाच-"सिन्धुसौवीरदेशे वीतभयाख्ये नगरे उदायन नामा नृपोऽभूत् । तस्य च महाप्रतापिनो धर्मरता सम्यग्दृष्टिः प्रभावती नाम भार्याऽऽसीत् । तस्य च नृपस्य प्रभावत्यामभीचिनामा युवराज: पुत्र: केशिनामा भागिनेयश्चाऽभूत् । इतश्च चम्पानगरे स्त्रीलम्पटो धनाढ्यः कुमारनन्दीति ख्यातः स्वर्णकारो बभूव । स च श्रुतां दृष्टां च रूपवती कन्यां स्वर्णपञ्चाशती दत्त्वा परिणिनाय । एवं क्रमात् तस्य स्त्रीपञ्चशती जाता । स चेालुरेकस्तम्भे प्रासादे ताभी रेमे । तस्य चाऽतिमित्रं नागिलो नाम श्रमणभक्त: पञ्चाऽणुव्रतधरश्चाऽभूत् ।
दशमं पर्व - एकादशः सर्गः
एकदा च शक्राज्ञया पञ्चशैलद्वीपस्थे व्यन्तरदेव्यौ नन्दीश्वरयात्रार्थं प्रस्थितवत्यौ । तदानीं च तत्पतिः पञ्चशैलेशो विद्युन्माली च्युतवान् । ततस्ते दध्यतुः-"कोऽद्य ग्राह्यो यो नौ पतिर्भवेत्" । एवं विचार्य गच्छन्तीभ्यां ताभ्यां स्त्रीपञ्चशत्या रममाणः कुमारनन्दी चम्पायां दृष्टः । ततस्ते पतीच्छया तद्ग्रहार्थं तत्समीपेऽवतेरतुः । कुमारनन्द्यपि च ते दृष्ट्वा के युवामिति पप्रच्छ। ततस्ते ऊचतुः"मनुष्य ! नाम्ना हासा प्रहासा चाऽऽवां देव्यौ" । स च ते दृष्ट्वा मोहं गतो रिरंसया ते प्रार्थयन् पञ्चशैलद्वीपे समागच्छेरिति ताभ्यामुक्तः । ततस्ते देव्यावुत्पतिते । स्वर्णकारश्च राज्ञे सुवर्णं दत्त्वा पटहघोषणां कारयामास- “यो मां पञ्चशैलद्वीपे नेष्यति स द्रव्यकोटि लप्स्यते" ।
तत एको वृद्धः पटहं धृत्वा धनमादाय पुत्रेभ्यो ददौ । तथैकं यानपात्रं कारयित्वा भूयसा शम्बलेन तदपूरयत् । कुमारनन्दिना सह यानपात्रमधिरुह्य सोऽब्धौ दूरं गत्वा स्थविरस्तमुवाच-"पश्य, समुद्रतटे शैलपादजातो वटोऽयं दृश्यते, यदा यानपात्रं तदधो याति तदाऽस्मिन् विलग्नो भवः । इह पञ्चशैलात् त्रिपदा भारुण्डाः पक्षिण: समागमिष्यन्ति । तेषु सुप्तेषु चैकस्य कस्याऽपि मध्यमे पादे स्वं पटेन दृढं बद्ध्वा दृढमुष्टियृह्णीयाः । प्रातश्चोड्डीना भारुण्डास्त्वां पञ्चशैलद्वीपं नेष्यन्ति । ततः परं यानपात्रं च महागर्ते विनक्ष्यति । वटेऽविलग्नश्च त्वमपि नाशमेष्यसि" । स स्वर्णकारस्तथैव चकार । भारुण्डपक्षिणा तत्र पञ्चशैले नीतश्च ताभ्यां देवीभ्यां दृष्टः । ते दृष्ट्वा च स नितरां रागाविष्टो जातः ।
ततस्ताभ्यां स उक्त:-"भद्र ! अनेनाऽङ्गेनाऽऽवां तव न भोग्ये । तदग्निप्रवेशादिना पञ्चशैलेशो भव" । ततः स स्वर्णकारो