________________
२०२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः व्यामूढः किं करोमि क्व यामीति भाषमाणस्ताभ्यां पाणौ कृत्वा चम्पापुरोद्याने मुक्तः । तत्र स लोकेनोपलक्ष्य वृत्तं पृष्टश्च निजां कथामाख्याय हासां प्रहासां च स्मरन्नग्निसाधनं प्रचक्रमे । तदा च स नागिलेन मित्रेणाऽऽगत्य प्रतिबोधित:-"कातरोचितं मरणं न तव युक्तम् । तुच्छभोगसुखार्थं दुर्लभं नरभवं न गमय । भोगेच्छैव चेत् तव तर्हि जैन धर्ममाश्रय । तेन हि स्वर्गा-ऽपवर्गसुखम् सुलभम्" । एवं तेन प्रतिबोधितोऽपि सोऽग्निमरणेन पञ्चशैलेशोऽभवत् । नागिलश्च मित्रस्य तादृशमरणेन निर्विण्णः प्रव्रज्य तपस्तप्त्वा विपद्याऽच्युते कल्पे देवभूयं प्राप्याऽवधिना मित्रं पञ्चशैलस्थं दृष्टवान् ।
तदा च नन्दीश्वरयात्रायां प्रस्थितानां देवानां पुरो गातुं प्रस्थिते हासा-प्रहासे विद्युन्मालिनं पटहं ग्रहीतुमादिशताम् । तत: स उवाच- "किं ममाऽपि कोऽप्याज्ञाकरः प्रभुः?" तेनाऽहङ्कारेण च पटहस्तस्य गलेऽलगत् । स च लज्जितस्तत्पटहमङ्गे लग्नं नोत्तारयितुं शशाक । ततो हासा-प्रहासे ऊचतुः-"इह जातानामिदं कर्म, तल्लज्जां मा गाः, चल, त्वं पटहं वादयिष्यसि" । ततो गायन्तीभ्यां ताभ्यां सह स पटहं वादयन् देवानां पुरतोऽगात् । नागिलो देवश्च यात्रायां गच्छन् हासा-प्रहासावृन्दे तं पटहधरं देवं विद्युन्मालिनं दृष्ट्वाऽवधेः सुहृदं ज्ञात्वाऽभिभाषणं कर्तुं तत्समीपमुपजगाम । स विद्युन्माली चोलूकः सूर्यस्येव नागिलदेवस्याऽङ्गप्रभाप्रकाशं दूरादपि द्रष्टुमप्यक्षम: पलायामास । ततो नागिलदेवः स्वं तेजः संहत्य विद्युन्मालिनमुवाच-"पश्य, मां जानासि किम् ?"
ततो विद्युन्माल्युवाच-"अहं तु महर्डीन् देवानिन्द्रादिकानपि न जानामि" । ततो नागिलदेव: स्वं श्रावकरूपं कृत्वा तं
दशमं पर्व - एकादशः सर्गः
२०३ प्रतिबोधयामास-"मित्र ! मदुपदेशे सत्यपि जैन धर्म विहाय पूर्वजन्मनि पतङ्ग इवाऽग्निमरणमकार्षीः । अहं तु जैनः प्रव्रज्यां पालयन् विपद्याऽच्युते देवोऽस्मि । तदावयोः स्वस्वकर्मण ईदृशः परिणामः" । ततो निर्विणं किं करोमीति भाषमाणं विद्युन्मालिनं नागिलदेव उवाच-"गार्हस्थ्यचित्रशालायां कायोत्सर्गस्थस्य भावयतेः प्रभोर्वीरस्य मूर्ति कारयः । तेन चाऽन्यस्मिन् भवे तव महाफलं बोधिबीजमुत्पत्स्यते" । ततो विद्युन्माली तदाज्ञां स्वीकृत्य शीघ्रमेव क्षत्रियकुण्डग्रामेऽस्मान् प्रतिमास्थितान् दृष्ट्वा महाहिमवन्तं गत्वा गोशीर्षचन्दनं छित्त्वा यथादृष्टमस्मन्मूर्ति सालङ्कारां कृत्वा चन्दनकाष्ठपुरे तां निधानमिव स्थापयामास ।
तदानीं चैकस्य प्रवहणस्योत्पातवशात् समुद्रे भ्रमतः षण्मासी व्यतिक्रान्ता । विद्युन्माली च तं दृष्ट्वोत्पातं संहृत्य पोतवणिजे प्रतिमासहितं समुद्गं दत्त्वोवाच-"तुभ्यं स्वस्ति, त्वं निरुपद्रवं सिन्धुसौवीरदेशे वीतभयपुरं गत्वा तच्चतुष्पथे स्थित्वा देवाधिदेवप्रतिमा गृह्यतामिति घोषयेः" । स सांयात्रिकोऽपि सद्यः प्रतिमाप्रभावाद् नदीमिवाऽब्धिमुत्तीर्य तटं प्राप्य सिन्धुसौवीरदेशे गत्वा वीतभये पुरे गत्वा चतुष्पथे स्थित्वा तथैव घोषणां चकार ।
तत्र च तापसभक्त उदायनो राजा त्रिदण्डिनो ब्राह्मणास्तापसाश्च समाजग्मुः । लोकाश्च ब्रह्माद्यादिकं स्मृत्वा तत् काष्ठपुरं कुठारेणाऽऽजघ्नुः । किन्त्वायसा अपि कठारा एवाऽभज्यन्त । ततो विस्मितस्य नृपस्य प्रातरारभ्य मध्याह्नो जातः । राज्ञी प्रभावती च राज्ञो भोजनकालातिक्रमं ज्ञात्वा तमाकारयितुं चेटीमादिशत् । तदा तदाश्चर्यं द्रष्टुं राजादिष्टा प्रभावत्यपि तत्राऽऽगत्य राज्ञः सकाशाद् वृत्तं ज्ञात्वोवाच-"ब्रह्मादयो न देवाधिदेवाः, किन्तु जिनः ।