________________
om
२०५
२०४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तज्जिनप्रतिमैवाऽत्र भविष्यति । ब्रह्मादिनामस्मरणात् तद्दर्शनं दुर्लभम् । अहं जिननामस्मरणेन तत्प्रतिमां दर्शयामि" ।
ततः सा यक्षकर्दमेन सम्पुटमभिषिच्य पुष्पाञ्जलिदानपूर्वकं प्रणम्य देवाधिदेवो जिनो मम दर्शनं देयादित्युक्तवती । तस्यामेवं ब्रुवाणायामेव सम्पुटं प्रातः कमलकोशवद् विकसितं जातम् । तत्र च गोशीर्षचन्दनेन देवनिर्मिता सालङ्काराऽम्लानमाल्या प्रतिमाऽदृश्यत । तेन च जिनशासनस्य महती प्रभावना जाता । प्रभावती च तत्प्रतिमां नत्वा भक्त्या स्तुत्वा सांयात्रिकं बन्धुवत् सत्कृत्य सोत्सवं प्रतिमामन्तःपुरं नीत्वा चैत्यगृहं कारयित्वा तत्र स्थापयित्वा सा स्नानपूर्वकं त्रिसन्ध्यं पूजयामास ।
एकदा च तां प्रतिमामचित्वा प्रभावती नृपेण सह सङ्गीतं चकार नृपश्च वीणामवादयत् । अन्यदा च नृपः प्रभावत्याः शिरो न ददर्श । तत्कबन्धमेव नृत्यन्तं ददर्श । तदरिष्टदर्शनेन सद्यः क्षुब्धस्य नृपस्य निद्रां भजमानस्य कराद् वीणा पतिता । ततोऽनवसरे नृत्यच्छेदकुपिता राज्युवाच-"किमहं तालच्युताऽस्मि, यद्वादनाद् विरतोऽसि?" ततो राजा तदाग्रहाद वीणापातकारणं कथयामास । ततो राज्युवाच-"प्रिय ! अनेन दुनिमित्तेनाऽहमल्पायुः, जिनधर्मरताया मम मृत्युरप्यस्तु, दुनिमित्तस्य दर्शनं मम सर्वविरतिज्ञापनाय" । एवमुक्त्वा साऽन्तःपुरं गता । नृपश्च श्रुतजिनधर्मा विमना जातः । ___अन्यदा च स्नानादिकं विधाय प्रभावती देवपूजाकाले दास्या योग्यानि वस्त्राण्यानाययामास । किन्तु भाव्यनिष्टवशात् तानि रक्तानि दृष्ट्वाऽस्मिन्नवसरे किमनरेण्यमून्यानीतानीति कुपिता दासीं दर्पणेन
दशमं पर्व - एकादशः सर्गः जघान । सा च दासी तद्घातेन विपन्ना । प्रभावती च तत्कालमेव तानि वस्त्राण्युज्ज्वलानि दृष्ट्वा दध्यौ-"मां धिक् यद् व्रतं खण्डितम् । स्त्रीघातो हि महतेऽश्रेयसे, तन्मम व्रतग्रहणमेव श्रेयः"। एवं ध्यात्वा सा प्रभावती नृपाय तदुनिमित्तं दासीवधपापात् स्ववैराग्यं च कथयित्वा व्रतायाऽनुज्ञां ययाचे । तया सनिर्बन्धं प्रार्थितश्च नृप उवाच-"तुभ्यं यद् रोचते तथा कुरु, किन्तु देवत्वं प्राप्तया त्वयाऽहं बोधनीयः" । ततः प्रभावती सर्वविरतिव्रतं गृहीत्वाऽनशनेन विपद्य प्रथमे कल्पे देवोऽभूत् ।
अथ तामन्तःपुरचैत्यस्थां जिनप्रतिमां देवदत्ताख्या कुब्जिका दासी पूजयामास । प्रभावतीदेवेन बोधितोऽपि स उदायनो नाऽबुध्यत । तत: स देवोऽवधेरुपायं ज्ञात्वा तापसीभूय दिव्यामृतफलसंभृतपात्रपाणिरागत्योदायनं नृपमुपाजगाम । राजा च तापसभक्तत्वात् तं पूजयामास तथा तद्दत्तानि फलानि दिव्यानि भक्षयामास च । ततः क्वैतानि फलानि प्राप्तानि ? तत्स्थानं दर्शयेति नृपस्तापसमपृच्छत् । ततस्तापस उवाच-"अस्य नगरस्य समीप एवाऽऽश्रमे एतत् फलं जायते" । तमाश्रमं दर्शयेति कथयन्तं च नृपं स तापसीभूतो देवः स्वशक्त्यैकाकिनं विधाय विद्यां दातुमिव सहाऽऽनीय किञ्चिद् गत्वा तादृक्फलसुभगमनेकतापससमन्वितमुद्यानं विकृत्य दर्शयामास । नृपश्च तापसभक्तस्य ममाऽत्र वने फलेच्छा पूरिष्यते इति कपिवद् दधावे ।
ततः सक्रोधं धावमानैस्तैः कृत्रिम-तापसैस्तस्करवत् कुट्यमानः पलायमानः स नृपोऽग्रेऽवस्थितान् साधून् दृष्ट्वा मा भैषीरिति कथयतस्तान् शरणं प्रपेदे । तैराश्वासितश्च नृपो दध्यौ-धिक, आजन्म क्रूरैस्तापसैर्वञ्चितोऽस्मि" । साधवश्च तमुपदिदिशुः-भवे धर्मः