Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 112
________________ १९४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दृग्विषः सोऽस्ति, भस्त्रायामुद्घाटितायामसौ नियतं दग्ध: स्यात् । तस्माद् वने पराङ्मुखोऽसौ मोक्तव्यः" । एवमभयेन कथिते तथैव मुक्त: सर्पः, तेन च वृक्षा दग्धाः, स सर्पश्च मृतः । ततः प्रसन्नेन प्रद्योतेन बन्धनमोक्षणं विना वरं याचस्वेत्युक्तोऽभयः सम्प्रति मे वरो न्यासीभूतोऽस्त्वित्युवाच ।। इतश्च प्रद्योतस्याऽङ्गारवत्यां भार्यायां वासवदत्ता नाम सुता लक्ष्मीतुल्याऽऽसीत् । सा धात्रीभिाल्यमाना क्रमेण वर्धमाना राजगृहाङ्गणे रेमे । नृपश्च सम्पूर्णलक्षणां तां पुत्रादप्यधिकां मेने । सा सकलकलाकलापकुशला गुरोरभावाद् गान्धर्ववेदं न ज्ञातवती । ततः प्रद्योतेन राजपुत्रीणां पतिगृहे गान्धर्वकलैवोपयोगिनीति विचार्य मत्सुताया गान्धर्वाध्यापक: को नाम भावीति पृष्टः सचिव उवाच'सम्प्रत्युदयनो नृपो गान्धर्वनिपुणोऽस्ति, स हि गीतेन मोहयित्वा गजान् वने बध्नातीति श्रूयते । तस्य बन्धनेऽत्राऽऽनयने चैष उपाय:-'वने सत्यगज इव किलिजाख्यकाष्ठैर्गजो विधातव्यः । यन्त्रप्रयोगेण च तस्य चलनासनादिका क्रिया सम्पादनीया । तत्किलिञ्जहस्तिमध्ये च शस्त्रधारिणः स्थास्यन्ति, तं गजं चालयिष्यन्ति, तमुदयनं भन्त्स्यन्ति च । एवं बद्ध्वा स वत्सराज इहाऽऽनीतस्त्वदाज्ञया वासवदत्तां गान्धर्वं शिक्षयिष्यति" । ___ ततो राज्ञा साधु साध्वित्यनुमतो मन्त्री तथोक्तप्रकारेण सत्यगजादप्यधिकगुणं गजं चकार । वनचराश्च दन्तघातादिक्रियादिभिस्तं सत्यं गजं मत्वोदयनाय निवेदयामासुः । उदयनोऽपि च तद्बन्धनार्थं वनं जगाम । स परिवारं दूरे एव विसृज्य शनैः शनैः परिक्राम्यन् वनान्तः प्रविश्य तस्य कपटगजस्य समीपं गत्वा च गातुमुपचक्राम । यथा यथा च स मधुरं जगौ तथा तथा दशमं पर्व - एकादशः सर्गः गजान्तःस्था: पुरुषास्तं गजं निश्चलानं चक्रुः । ततः कौशाम्बीनृपो गजं गीतमोहितं मत्वा शनैः शनैस्तत्समीपं गत्वोत्प्लुत्य तमारुरोह । ततः प्रद्योतेनाऽऽयुक्ता भटा गजोदराद् निर्गत्य वत्सराजं गजस्कन्धात् पातयित्वा निरस्त्रमेकाकिनमकृतपौरुषमबन्धयन् । तथा तैरपितं वत्सराजं प्रद्योत एकाक्षी मत्पुत्रीं गान्धर्वकलां शिक्षय, मद्गृहे सुखं तिष्ठ, अन्यथा मदायत्तं तव जीवनमित्युवाच । उदयनश्च कन्यामध्यापयन् कालं यापयामि, जीवन् हि नरो भद्राणि पश्यतीति विचार्य प्रद्योताज्ञामनुमेने । ततः प्रद्योतस्तं"मम पुत्री काणा, तां कदाचिद् न पश्ये:, अन्यथा सा लज्जिष्यते" इत्युक्त्वाऽन्तःपुरे गत्वा स्वपुत्रीमपि 'तव गान्धर्वगुरुरागतः, स कुष्ठीति न कदाचिदवलोकनीय" इत्युवाच । ततो वत्सराजस्तां तथैवाऽध्यापयामास । प्रद्योताज्ञया च तौ परस्परं न ददृशतुः । अन्यदा च वासवदत्ता गुरुं पश्यामीति विचारयन्ती शून्यचित्ताऽन्यथैवाऽपाठीत् । ततो वत्सराजस्तां तजितवान्-"काणे ! कि शास्त्रं विनाशयसि ? किं दुःशिक्षिताऽसि ?" ततस्तिरस्कारकुपिता साऽपि वत्सराजमुवाच-"मां काणां कथयसि, स्वं कुष्ठिनं कि नाऽवलोकयसि ?" ततो वत्सराजो दध्यौ-"यथाऽहं कुष्ठी तथैवेयं काणा किम् ? तदेनां पश्यामि" । एवं विचार्य स जवनिकामपसार्य सर्वाङ्गसुन्दरीं ददर्श । साऽपि च विस्मयोत्फुल्लनेत्रा सर्वाङ्गसुभगं वत्सराजं ददर्श । तेन च परस्परमनुरक्तौ तौ स्मितं चक्रतुः ।। ततो वासवदत्तोवाच-"मां धिक्, या पित्रा प्रतारिता त्वां नाऽपश्यम् । कलाचार्य ! मयि सम्यङ् न्यस्ताः कलास्तवैवोपयोगिन्यो भवन्तु । त्वं मम भर्ता भव" । ततो वत्सराज उवाच"त्वत्पित्रैव वञ्चितोऽस्मि । त्वं काणेत्यतोऽन्तरितां कृतां त्वां पश्यन्

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147