Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 110
________________ १९० त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः धनं दर्शयामास । ततोऽभयो यथास्वं पौराणां तद् धनमर्पयामास । ततो रौहिणेयो निजजनान् परमार्थं कथयित्वा प्रबोध्य च श्रद्धया प्रभुसमीपं समाजगाम । ततः श्रेणिकनृपेण कृतनिष्क्रमणोत्सवः स वीरजिनपार्श्वे प्रव्रज्यां जग्राह । ततश्च कर्मच्छेदाय स चतुर्थादिकं दुष्करं तपश्चकार । तपः कृशश्च स भावसंलेखनां कृत्वा श्रीवीरजिनमापृच्छ्य पर्वते पादपोपगमनानशनं विधाय शुभध्यानस्थः पञ्चपरमेष्ठिनमस्कारं स्मरन् विपद्य दिवं ययौ । प्रभुरपि देवादिभिः सह ततोऽन्यत्र विजहार । *** इतश्च श्रेणिको नृपस्तस्मिन् राजगृहे नगरे सम्यक्त्वं धारयन् नीत्या राज्यं पालयामास । अन्यदा चोज्जयिनीपतिश्चण्डप्रद्योतः सर्वसामग्ग्रा सह राजगृहं रोद्धुं चचाल । लोकैर्बद्धमुकुटः प्रद्योत - श्चतुर्दशाऽन्ये नृपाश्च तत्र समागच्छन्तो दृष्टाः । श्रेणिकश्च जविभिर्हयैरागतैश्चरैस्तत् शुश्राव । ततः श्रेणिको दध्यौ - " अत्राऽऽगच्छन् प्रद्योतः कथं नष्टबलः कार्यः " । एवं ध्यात्वा सोऽभयकुमारमुखमै - क्षिष्ट । ततोऽभय उवाच - " प्रद्योतो मम युद्धातिथिर्भवेदित्यस्य न काऽपि चिन्ता । यद्वा बुद्धिसाध्ये कार्ये शस्त्राशस्त्रिकथा हेया । तबुद्धिमेव प्रयोक्ष्ये" । ततः सोऽभयो बाह्ये शत्रुसैन्यानामावासस्थानभूमिषु दीनारान् लौहसम्पुटे कृत्वा निखानितवान् । तथा चरैः प्रद्योतं प्रति लेखं प्रेषयामास-"शिवादेवी - चेलणयोर्न कोऽपि भेदः । तच्छिवादेवीसम्बन्धेन सर्वदा मान्योऽसि । तत्तव हितेच्छया कथयामि यत् सर्वे ते नृपाः श्रेणिकराजेन भेदिताः । तान् स्ववशगान् कर्तुं दीनारा: दशमं पर्व एकादशः सर्गः १९१ प्रेषिताः सन्ति । नृपाश्च तान् दीनारानादाय त्वां बद्ध्वा श्रेणिकस्याऽर्पयिष्यन्ति । तेषां कृते तदावासेषु दीनारा निखाताः सन्ति । तत् खानयित्वा प्रत्ययं कुरु" । तज्ज्ञात्वा च प्रद्योत एकस्य नृपस्याऽऽऽवासं खानयामास । तत्र च दीनारा लब्धाः । ततः स नृपः पलायितवान् । तस्मिन् पलायिते च श्रेणिकस्तत्सैन्यं पराभूय सर्व हस्त्यश्वादिकं जग्राह । प्राणानादाय पलायितश्च प्रद्योतो वेगिनाऽश्वेन कथमपि स्वां नगरीं प्राप । अन्ये नृपा भटाश्चाऽपि काकनाशं नेशुः । तेऽपि च प्रद्योतमनुसरन्त उज्जयिनीं प्रापुः । तत्र च तैरभयस्येयं माया न वयमन्यथाकारिण इति सशपथं प्रद्योतः प्रत्यायितः । ततः कदाचित् प्रद्योतः सभायामुवाच - " योऽभयं बद्ध्व ममाऽर्पयतीदृशः कोऽप्यस्ति किम् ?" ततः काऽप्येका वेश्या हस्तमुत्क्षिप्याऽहमत्र समर्थेति विज्ञापयामास । ततः प्रद्योतस्तामुवाच - "यदि त्वं सक्षमा तर्हि तत् सम्पादय । सम्प्रति किं तवाऽर्थादिसाहाय्यं करोमि तद् ब्रूहि " । ततः सा गणिका दध्यौ"अभय उपायान्तरेण न ग्राह्यः । तद्धर्मकपटमादायैव स्वेष्टं करोमि । एवं ध्यात्वा सा प्रौढे द्वे स्त्रियौ याचितवती । प्रद्योतश्च प्रभूतेन द्रव्येण सह ते ददौ । ततस्तास्तिस्रोऽपि प्रतिदिनं साध्वीरुपास्योपास्य प्रज्ञावत्यो जाताः । ततस्तास्तिस्रोऽपि श्रेणिकनृपपुरं गत्वा बाह्योद्याने वासं चक्रुः । वेश्या च चैत्यपरिपाटीं कर्तुं पत्तनस्य मध्ये गत्वा नृपकारिते चैत्ये प्रविश्य ताभ्यां सह नैषेधिकीत्रयं कृत्वा पूजां विधाय ग्रामरागपूर्वकेण वचसा देवं वन्दितुमारेभे । तदानीं च विवन्दिषुरभयकुमारोऽपि तत्र गतस्ताभ्यां सह गणिकां वन्दनं कुर्वतीं दृष्ट्वा "मया प्रविशताऽस्या देववन्दविघ्नो मा

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147