Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 101
________________ १७४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो गौतमस्तान् महानसलब्ध्या सर्वानेव भोजयामास । पश्चाच्च स्वयमपि भुक्तवान् । तेन ते विस्मिता बभूवुः । ततस्तेषां भोजनं कुर्वतां मुनीनां तापसानां शेवालभक्षिणां दिष्ट्याऽस्माभिर्वीरो धर्मगुरुः पितृकल्प एष मुनिर्दुर्लभो बोधश्च प्राप्तः, सर्वथा वयं कृतकृत्याः स्मः" । एवं शुभभावनावतां शीघ्रमेव केवलमुत्पन्नम् । तथा प्रातिहार्याणि श्रीवीरजिनं चाऽवलोकमानानां दत्तादीनां कौण्डिन्यादीनां चाऽमलं केवलं जज्ञे । ततस्ते प्रभुं प्रदक्षिणीकृत्य केवलिपर्षदं जग्मुः । गौतमश्च प्रभुं वन्दध्वमिति तानुवाच । ततः प्रभुरुवाच-"केवल्याशातनां मा कार्षीः" । ततो गौतमो मिथ्यादुष्कृतपूर्वं तान् क्षमयामास । तथा पुनः स गौतमो दध्यौ-"गुरुकर्माऽहमत्र भवे न सेत्स्यामि, एते मम शिष्या धन्याः, येषां केवलमुत्पन्नम्" । एवं चिन्तयन्तं गौतमं प्रभुरुवाच-"गौतम ! सुराणां वचः सत्यं जिनानां वा ?" ततो जिनानामिति गौतमेनोक्ते प्रभुरुवाच-"ततोऽसन्तोषं मा कार्षीः, शिष्याणां गुरुषु तृणद्विदलचर्मोर्णाकटतुल्याः स्नेहा भवन्ति । तत्र तवाऽस्मासु चिरसम्पर्काद् दृढतर उर्णाकटतुल्यः स्नेहः, तेन तव केवलं रुद्धमस्ति । तादृशस्नेहाभावे सति तव केवलं भविष्यति" । तथा प्रभुर्गौतमस्य प्रबोधायाऽन्येषामनुशासनाय च द्रुमपत्रीयाध्ययनं व्याचख्यौ । दशमं पर्व - नवमः सर्गः प्रभुणोक्त:-"तत्र राजगृहे नागरथिपत्न्याः सुलसाया अस्मदाज्ञया प्रवृत्ति पृच्छेः" । सोऽम्बडश्चेच्छामीत्युक्त्वाऽऽकाशमार्गेण राजगृहं गत्वा सुलसाया गृहद्वारे स्थित्वा दध्यौ-सुरेन्द्रादीनामवलोकमानानां सतां प्रभुः किमिति सुलसापक्षपाती, तत्परीक्षणं करिष्ये" । एवं विचार्य सोऽम्बडो वैक्रियलब्ध्या रूपान्तरं कृत्वा सुलसागृहे प्रविश्य भिक्षां ययाचे । सा च पात्राय साधवे भिक्षां ददामीति कृतप्रतिज्ञा याचमानायाऽपि तस्मै भिक्षां न ददौ । ततः स नगराद् निर्गत्य गोपुरस्याऽग्रे ब्रह्मणो रूपं विकृत्य समाहितः स्थितो धर्मदेशनया नागराणां मनो जहार । सुलसा च बहिः स्वयं ब्रह्माऽस्तीति सखीभिराकारिताऽपि न ययौ । ततो द्वितीयदिनेऽम्बडो विष्णुरूपं विकृत्य दक्षिणस्यां स्थितवान् । तत्राऽपि सम्यग्दृष्टिः सा सुलसा न जगाम । तृतीयदिने चाऽम्बडः पश्चिमायां गौरीसहितं शिवरूपं विकृत्य धर्मदेशनया पौराणां मनोऽहार्षीत् । किन्तु सुलसा द्रष्टुमपि नाऽऽजगाम । चतुर्थदिवसे च सोऽम्बडः उत्तरस्यां समवसरणं विकृत्य तत्र जिनीभूय स्थितवान् । पौराश्च तत्राऽऽगत्य धर्मदेशनामश्रौषुः, तथाऽप्यनागतां सुलसां क्षोभयितुं स कञ्चित्पुरुषं प्रेषीत् । स च गत्वा तामुवाच-"सुलसे ! जिनेश्वरः समवसृतोऽस्ति, तत्तं वन्दितुं कि चिरयसि ?" ततः सलसा तमवाच-"नाऽयं जिनः, श्रीवीरप्रभुश्चरमो जिनः" । ततः स तां प्रत्युवाच-"मुग्धे ! अयं पञ्चविंशस्तीर्थकरोऽस्ति, तत्प्रत्यक्षं पश्य" । तत: सुलसोवाच-"न पञ्चविंशो जिनः कदाऽपि भवति, अयं तु भिक्षुको मिथ्यामतिर्लोकान् वञ्चयते" । ततः स पुमानुवाच-"भद्रे ! भेदं मा कार्षीः, शासनस्य प्रभावना भवति, तदेहि, न ह्यनेन तव काऽपि हानिः"। अथ तस्मिन्नवसरे प्रभोरुपासकः परिव्राजकोऽम्बडश्छत्रत्रिदण्डधरस्तत्राऽऽगत्य प्रभुं त्रिः प्रदक्षिणीकृत्य प्रणम्य पुलकिततनुरञ्जलि विदधे । ततो भक्त्या स्तुत्वा यथास्थानमुपविश्य च देशनां श्रुत्वाऽन्ते प्रभुं पुनर्नत्वा राजगृहं प्रति प्रतिष्ठमान:

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147