Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 105
________________ १८० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः परिणायितवान् । शालिभद्रश्च ताभी रम्ये विमाने देवेन्द्र इव गृहे स्वैरं रेमे । स आनन्दमग्नो दिवसं रात्रि वा न विवेद । तस्य पितरौ स्वयं भोगसामग्री पूरयामासतुः। अथ गोभद्रः श्रीवीरजिनपार्वे व्रतं गृहीत्वा विधिपूर्वक मनशनं विधाय च देवलोकं गतो निजात्मजं शालिभद्रमवधिज्ञानतो ज्ञात्वा तत्पुण्यैराकृष्टः पुत्रवात्सल्यवान् विचित्राणि दिव्यवस्त्रादीनि प्रतिदिनं कल्पद्रुम इव सभार्यस्य पुत्रस्याऽर्पयामास । भद्रा च व्यवहारोचितं सर्वं कार्यं चकार । पूर्वदानप्रभावेण भोगानभुक्त च । ____ अन्यदा केचिद् वणिजो रत्नकम्बलानादाय नृपं भेजुः । श्रेणिकनृपश्च महार्घत्वेन तान्नाऽग्रहीत् । ततस्ते शालिभद्रगृहं जग्मुः । भद्रा च तदुक्तमूल्येन तान् रत्नकम्बलानग्रहीत् । तदानीं च चेलणादेव्या मद्योग्य एकः कम्बलो महामूल्येनाऽपि गृह्यतामित्युक्तः श्रेणिको नृप एकं कम्बलं मूल्येन मम देहीति वणिजो जगाद । ततस्ते भद्रा तान् सर्वान् कम्बलानग्रहीदित्यूचुः । ततः श्रेणिक एकं पुरुषं मूल्येन कम्बलग्रहणार्थं भद्रापार्वे प्रेषीत् । तेन प्रार्थिता च भद्रोवाच-"ते कम्बलाः फालयित्वा मया शालिभद्रपत्नीपादप्रोञ्छनीकृताः । तद्यदि जीर्णैः कम्बलैः कार्यमस्ति तर्हि गत्वा नृपं पृष्ट्वाऽऽगत्य गृहाण" । ततः स पुरुषो गत्वा नृपाय सर्वमाख्यत् । ततश्चेलणोवाच-"अस्माकं वणिजां च पित्तल-सुवर्णयोरिवाऽन्तरं पश्य" । ततः श्रेणिकेन तं पुरुषमेव प्रेष्याऽऽहूते शालिभद्रे भद्रा समेत्य विज्ञापयामास-"मम पुत्रो बहिर्न कदाऽपि याति, तन्मद्गृहागमनेन मामनुगृहाण" । श्रेणिकश्च कौतुकात् तत् प्रतिपन्नवान् । भद्रा च तं क्षणं प्रतीक्ष्याऽग्रे भूत्वा गृहं गत्वा स्वगृहाद् राजप्रासादावधि रत्नैर्वस्वैश्चित्रचर्मभिश्च प्रासादशोभां चकार । ततस्तया दशमं पर्व - दशमः सर्गः ऽऽकारितो नृपो देवैः कृतामिव हट्टशोभां पश्यन् शालिभद्रभवनं भुवि दिव्यविमानमिव स्थितं प्राप्य विस्मितः प्रविश्य च चतुर्थ्यां भूमौ सिंहासने उपविष्टवान् । ततो भद्रा सप्तम्यां भूमौ गत्वाऽत्राऽऽगतं श्रेणिकं द्रष्टुं क्षणमेहीति शालिभद्रमुवाच । ततः स भद्रामुवाच-"मातर्यत् त्वं वेत्सि तत् सर्वं कारय, मया तत्र किं कर्त्तव्यम् ?" ततो भद्रोवाच"नृपो न क्रेतव्यं वस्तु, किन्तु जनानामिव युष्माकमपि स्वामी स:"। तच्छ्रुत्वा शालिभद्रो विषण्णो दध्यौ-"सांसारिकमैश्वर्यं धिक्, यद् ममाऽपि कोऽपि स्वामी । तत्सपैरिवैभिर्भोगैरलम् । शीघ्रमेव वीरजिनपावें दीक्षा ग्रहीष्यामि" । एवं संविग्नोऽपि स मातुरनुरोधात् सपत्नीक आगत्य सविनयं नृपं प्रणनाम । श्रेणिकश्च स्वपुत्र इव तमालिङ्ग्याऽङ्के समुपवेश्य स्नेहाद् मस्तके आजघ्रौ किन्तु स क्षणाद् बाष्पाणि पातयामास । ततो भद्रोवाच-"नृप ! त्यजेमं, यतो नरोऽप्ययं मनुष्यमाल्यगन्धेन पीड्यते । देवत्वं गतः श्रेष्ठी सपत्नीकस्याऽस्य प्रतिदिनं दिव्यनेपथ्यादीनि प्रयच्छति" । ततो नृपेण विसृष्टः स शालिभद्रः सप्तमभूमिकां जगाम । भद्रया चेहैव भोक्तव्यमिति विज्ञप्तो नृपस्तत् प्रतिपन्नवान् । भद्रा च शीघ्रमेव सर्वं प्रगुणीचकार।। ततः स्नानं कुर्वतो नृपस्याऽगुल्या ऊर्मिका गृहवाप्यां पतिता। यावच्च नृप इतस्ततोऽन्वेषयामास तावद् भद्रा दासीं वापीजलाऽपाकरणायाऽऽदिशत् । दास्या तथा कृते च नृपश्चित्राभरणमध्येऽङ्गाराभं स्वाङ्गुलीयं दृष्ट्वा विस्मितः किमेतदिति दासी पप्रच्छ । तदा सोवाच-"अत्र प्रतिदिनं सभार्यस्य शालिभद्रस्य निर्माल्यं

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147