Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 106
________________ १८२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रक्षिप्यते" । ततो नृपो दध्यौ-"अयं सर्वथा धन्यः, अहमपि च धन्यो यस्य राज्ये ईदृशाः सन्ति" । अनन्तरं च नृपः सपरिवारो भुक्त्वा विविधवस्त्रभूषणादिभिः सत्कृतश्च स्वगृहं जगाम । अथ शालिभद्रो यावत् संसारत्यागमैच्छत् तावद् धर्ममित्रेणाऽऽगत्य विज्ञप्त:-"चतुर्ज्ञानी देवादिभिः पूजितो धर्मघोषमुनिरुद्याने समागतोऽस्ति" । तच्छृत्वा प्रसन्न: शालिभद्रो रथमारुह्य गत्वाऽऽचार्यपादान् साधूंश्च वन्दित्वा पुर उपविश्य देशनान्ते पप्रच्छ"भगवन् ! केन कर्मणा जनः प्रभुरेव नाऽन्यो भवति ?" ततो मुनिरुवाच-"व्रतिनः सर्वजगत्प्रभुत्वं यान्ति" । ततः शालिभद्र उवाच-"यद्येवं तर्हि गत्वा मातरमापृच्छ्य व्रतं ग्रहीष्यामि" । ततः सूरिणा न प्रमादो विधातव्य इत्युक्तः शालिभद्रो गृहं गत्वा भद्रां नत्वोवाच-"अद्य धर्मघोषमुनेर्देशना मया श्रुता" । तेन मात्रा मुदाऽभिनन्दितश्च स व्रतग्रहणाय निर्देशं ययाचे । मात्रा च व्रतकष्टं दर्शयित्वा भोगान् क्रमात् त्यज, मनुष्यमाल्यगन्धान् सहस्व चेत्यादिष्टः स तत् प्रतिपद्यैकां भार्यां तूलिकां च प्रतिदिनं त्यजति दशमं पर्व - दशमः सर्गः १८३ भाग्यादद्याऽनुकूला ममाऽभूवन्निति शीघ्रमेव व्रतं ग्रहीष्यामि" । ततस्ताभिर्वार्यमाणः प्रार्थ्यमानोऽपि च दृढप्रतिज्ञो धन्य उत्थितवान्। ततस्तासामपि स्वमनुव्रतग्रहणेच्छां धन्योऽन्वमन्यत । तदानीं च धर्ममित्रेण वैभारगिरौ वीरजिनः समवसृत इति ज्ञात्वा धन्यः सपत्नीक: शिबिकामारुह्य गत्वा सदारो व्रतं वीरजिनान्तिके गृहीतवान् । तच्छ्रुत्वा शालिभद्रोऽपि जितंमन्यस्त्वरित: श्रेणिकनृपेणाऽनुगम्यमान आगत्य वीरजिनपावें दीक्षां ललौ। ततः प्रभुः सपरिवारोऽन्यत्र विजहार । अथ धन्यः शालिभद्रश्च श्रुतमधीत्य दुष्करं तपश्चरन्तौ शरीरेऽपि नि:स्पृहौ मासोपवासादिकं कुर्वाणावतिकृशौ बभूवतुः । एकदा च वीरप्रभुणा सह तौ निजजन्मभुवं राजगृहपुरमाजग्मतुः । तत्र च समवसरणस्थं प्रभुं नन्तुं श्रद्धया भक्त्या च जना निरन्तरमागच्छन्ति स्म । मासक्षपणके च धन्य-शालिभद्रौ यथाकालं भिक्षार्थं गन्तुं प्रभुं प्रणेमतुः । अद्य ते मातृपाछत् पारणमिति प्रभुणोक्तः शालिभद्र इच्छामीति वदन् धन्यसहितो गत्वा भद्रागृहद्वारि स्थितवान् । तपःकृशतया च तौ न केनाऽप्युपलक्षितौ । भद्राऽपि च वीरजिनं शालिभद्रं धन्यं चाऽद्य नन्तुं यामीति कृतत्वरा तौ नोपलक्षितवती । तौ च क्षणं तत्र स्थित्वा ततो निर्गत्य नगरद्वाररथ्याया निर्जग्मतुः ।। तदानीं च दधि-सर्पिषी विक्रेतुं तस्मिन् पुरे समागच्छन्ती शालिभद्रस्य प्राग्जन्ममाता धन्या पुरो भूता तं दृष्ट्वा सद्यः प्रस्तुतस्तनी तौ नत्वा ताभ्यां दधि ददौ । शालिभद्रश्च वीरजिनपावें गत्वा रचिताञ्जलिर्जगाद-"प्रभो ! मातृतः पारणं कथम् ?" ततः सर्वतो इतश्च तस्मिन्नेव नगरे धनाढ्यो धन्यो नाम शालिभद्रस्य कनिष्ठस्वसृपतिरासीत् । एकदा च शालिभद्रभगिनी रुदती तेन पत्या कि रोदिषीति पृष्टा सगद्गदमुवाच-"मम भ्राता व्रतं ग्रहीतुं दिने दिने एका भायाँ तूलिकां च त्यजति, तेनाऽहं रोदिमि" । ततो धन्यः सहासमुवाच-“य एवं करोति स शृगाल इव भीरुः, तत्त्वद्भ्राता तपसि हीनसत्त्वः" । ततोऽन्याभिः पत्नीभिः "यदि व्रतं सुकरं तर्हि स्वयं किं न गृह्णासि" इति सहासमुक्तो धन्य उवाच-"भवत्यो व्रते विघ्नाः, ताश्च

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147