Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 104
________________ १७९ १७८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतस्तस्य समृद्धिगर्वं विज्ञाय तत्प्रबोधार्थं शक्रो जलमयं जलकान्तविमानं कल्पद्रुमादिमनोहरं विचक्रे । ततो देवैः सह तदारुह्य सुरस्त्रीभिः सामानिकादिदेवैश्च समन्वितः समवसरणमागत्य वीरजिनं भक्त्या ववन्दे । दशार्णभद्रश्च शक्रस्य तामृद्धिं दृष्ट्वा नागरद्धर्या ग्राम्य इव स्तम्भितो विस्मितो दध्यौ-"अहो शक्रविमानस्येयमलौकिकी शोभा, शक्रहस्तिनश्च शुचिवपुष्वमाश्चर्यम् । इन्द्रस्य लोकोत्तरो विभवविस्तारः। मया स्वसम्पदो मुधैवाऽभिमानो व्यधायि । मां धिक्, मम शक्रस्य च गोष्पदसमुद्रयोरिवाऽन्तरमस्ति" । एवं भावयतः क्रमाद् वैराग्यं गच्छतश्च तस्य नृपस्याऽल्पकर्मण: शुभतरः परिणामो बभूव । ततो विवेकी स नृपो 'न केवलं व्रतग्रहणेन शक्रं विजेष्ये किन्तु भवहेतून् कर्मरिपूनपी'ति ध्यात्वा दशार्णभद्रस्तत्रस्थ एव किरीटादिकं त्यक्त्वा कर्मद्रुममूलानीव पञ्चभिर्मुष्टिभिः शिरसः केशान् लुञ्चयामास । विस्मिते शक्रे पश्यत्येव च स गणधरसमीपं गत्वा यतिलिङ्गमुपादाय प्रभुसमीपं गत्वा प्रदक्षिणापूर्वकं ववन्दे । ततः शक्र उवाच- "महानुभाव ! तवाऽऽश्चर्यं पौरुषम्, अनेन प्रकारेण हि त्वं मामप्यऋषी:" । एवमुक्त्वा चेन्द्रस्तं नमस्कृत्य स्वं धाम जगाम। मुनिर्दशार्णभद्रश्च व्रतं सम्यक् पालयामास । वीरजिनोऽपि ततोऽन्यत्र विजहार । दशमं पर्व - दशमः सर्गः अन्यदा चोत्सवे प्रवृत्ते सङ्गमो गृहे गृहे पायसं भुज्यमानं दृष्ट्वा स्वगृहं गत्वा स्वमातरं पायसे ययाचे । सा च दरिद्रा पायसाभावादज्ञतया बालेन पुन: पुनर्याच्यमाना च पूर्वविभवं स्मृत्वोच्चै रुरोद । तस्या रुदितेन दुःखिताः प्रतिवेश्मिन्य आगत्य दुःखकारणं पप्रच्छुः । दुःखकारणं ज्ञात्वा च तास्तस्यै दुग्धादिकं ददुः । ततः सा पायसं कृत्वा तेन घृतादिभिश्च स्थालं भृत्वा बालस्याऽपित्वा केनाऽपि कार्येण गृहान्तर्जगाम । अत्राऽवसरे च कृतमासोपवास: कोऽपि मुनिः पारणार्थं समागतः । ततः स बालो दध्यौ-"अयं जङ्गमः कल्पद्रुमः, तन्मद्भाग्यादेवाऽत्र समागतः । एवं विचार्य स स्थालमुत्थाप्य पायसं साधवे ददौ । मुनिस्तु तदनुग्रहाय तदादाय गतवान् । धन्याऽपि च गेहाद् निर्गत्य पायसमनेन भुक्तमिति मत्वा पुनस्तद् ददौ । ततः स तत् पायसमतृप्तः सन्नाकण्ठं भुक्तवान् । तदजीर्णेन च रात्रौ साधु स्मरन् विपद्य तद्दानप्रभावेण राजगृहे गोभद्रश्रेष्ठिनो भाया भद्राया उदरे जातः । सा च स्वप्ने सुनिष्पन्नं शालिक्षेत्रं दृष्ट्वा पत्युः कथयामास । स च पुत्रस्ते भवितेति तत्फलं कथितवान् । ततस्तस्या दानधर्मादिकर्मदोहदं स गोभद्रः पूरयामास । पूर्णे समये च सा भद्रा कान्तिप्रसादितदिशं पुत्रमसूत । ततः पितरौ तस्य शुभे दिने दृष्टस्वप्नानुसारेण शालिभद्र इति नाम चक्रतुः । स बालश्च पञ्चभिर्धात्रीभिः पाल्यमान: क्रमाद् वर्धमान: किञ्चिद् न्यूनाष्टवर्ष एव पित्रा कलाकलापकुशलः कृतः । यौवनं प्राप्य च स सवयोभिर्विविधं रेमे । तन्नगर श्रेष्ठिनश्चाऽऽगत्य निजा द्वात्रिंशतं कन्या: शालिभद्राय प्रदातुं गोभद्रं प्रार्थयामासुः । ततो मुदितो गोभद्रः शालिभद्रेण ताः सम्पूर्णलक्षणा: कन्या: इतश्च राजगृहस्य शालिग्रामे धन्या नाम काचित् स्त्री विनष्टवंशाऽऽसीत् । सा च सङ्गमकं नाम कुक्षिजं बालं पुत्रं सहाऽऽनयामास। स च बालो नागराणां वत्सान् चारयामास ।

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147