________________
१७९
१७८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतस्तस्य समृद्धिगर्वं विज्ञाय तत्प्रबोधार्थं शक्रो जलमयं जलकान्तविमानं कल्पद्रुमादिमनोहरं विचक्रे । ततो देवैः सह तदारुह्य सुरस्त्रीभिः सामानिकादिदेवैश्च समन्वितः समवसरणमागत्य वीरजिनं भक्त्या ववन्दे । दशार्णभद्रश्च शक्रस्य तामृद्धिं दृष्ट्वा नागरद्धर्या ग्राम्य इव स्तम्भितो विस्मितो दध्यौ-"अहो शक्रविमानस्येयमलौकिकी शोभा, शक्रहस्तिनश्च शुचिवपुष्वमाश्चर्यम् । इन्द्रस्य लोकोत्तरो विभवविस्तारः। मया स्वसम्पदो मुधैवाऽभिमानो व्यधायि । मां धिक्, मम शक्रस्य च गोष्पदसमुद्रयोरिवाऽन्तरमस्ति" । एवं भावयतः क्रमाद् वैराग्यं गच्छतश्च तस्य नृपस्याऽल्पकर्मण: शुभतरः परिणामो बभूव ।
ततो विवेकी स नृपो 'न केवलं व्रतग्रहणेन शक्रं विजेष्ये किन्तु भवहेतून् कर्मरिपूनपी'ति ध्यात्वा दशार्णभद्रस्तत्रस्थ एव किरीटादिकं त्यक्त्वा कर्मद्रुममूलानीव पञ्चभिर्मुष्टिभिः शिरसः केशान् लुञ्चयामास । विस्मिते शक्रे पश्यत्येव च स गणधरसमीपं गत्वा यतिलिङ्गमुपादाय प्रभुसमीपं गत्वा प्रदक्षिणापूर्वकं ववन्दे । ततः शक्र उवाच- "महानुभाव ! तवाऽऽश्चर्यं पौरुषम्, अनेन प्रकारेण हि त्वं मामप्यऋषी:" । एवमुक्त्वा चेन्द्रस्तं नमस्कृत्य स्वं धाम जगाम। मुनिर्दशार्णभद्रश्च व्रतं सम्यक् पालयामास । वीरजिनोऽपि ततोऽन्यत्र विजहार ।
दशमं पर्व - दशमः सर्गः अन्यदा चोत्सवे प्रवृत्ते सङ्गमो गृहे गृहे पायसं भुज्यमानं दृष्ट्वा स्वगृहं गत्वा स्वमातरं पायसे ययाचे । सा च दरिद्रा पायसाभावादज्ञतया बालेन पुन: पुनर्याच्यमाना च पूर्वविभवं स्मृत्वोच्चै रुरोद । तस्या रुदितेन दुःखिताः प्रतिवेश्मिन्य आगत्य दुःखकारणं पप्रच्छुः । दुःखकारणं ज्ञात्वा च तास्तस्यै दुग्धादिकं ददुः । ततः सा पायसं कृत्वा तेन घृतादिभिश्च स्थालं भृत्वा बालस्याऽपित्वा केनाऽपि कार्येण गृहान्तर्जगाम ।
अत्राऽवसरे च कृतमासोपवास: कोऽपि मुनिः पारणार्थं समागतः । ततः स बालो दध्यौ-"अयं जङ्गमः कल्पद्रुमः, तन्मद्भाग्यादेवाऽत्र समागतः । एवं विचार्य स स्थालमुत्थाप्य पायसं साधवे ददौ । मुनिस्तु तदनुग्रहाय तदादाय गतवान् । धन्याऽपि च गेहाद् निर्गत्य पायसमनेन भुक्तमिति मत्वा पुनस्तद् ददौ । ततः स तत् पायसमतृप्तः सन्नाकण्ठं भुक्तवान् । तदजीर्णेन च रात्रौ साधु स्मरन् विपद्य तद्दानप्रभावेण राजगृहे गोभद्रश्रेष्ठिनो भाया भद्राया उदरे जातः । सा च स्वप्ने सुनिष्पन्नं शालिक्षेत्रं दृष्ट्वा पत्युः कथयामास । स च पुत्रस्ते भवितेति तत्फलं कथितवान् । ततस्तस्या दानधर्मादिकर्मदोहदं स गोभद्रः पूरयामास । पूर्णे समये च सा भद्रा कान्तिप्रसादितदिशं पुत्रमसूत । ततः पितरौ तस्य शुभे दिने दृष्टस्वप्नानुसारेण शालिभद्र इति नाम चक्रतुः ।
स बालश्च पञ्चभिर्धात्रीभिः पाल्यमान: क्रमाद् वर्धमान: किञ्चिद् न्यूनाष्टवर्ष एव पित्रा कलाकलापकुशलः कृतः । यौवनं प्राप्य च स सवयोभिर्विविधं रेमे । तन्नगर श्रेष्ठिनश्चाऽऽगत्य निजा द्वात्रिंशतं कन्या: शालिभद्राय प्रदातुं गोभद्रं प्रार्थयामासुः । ततो मुदितो गोभद्रः शालिभद्रेण ताः सम्पूर्णलक्षणा: कन्या:
इतश्च राजगृहस्य शालिग्रामे धन्या नाम काचित् स्त्री विनष्टवंशाऽऽसीत् । सा च सङ्गमकं नाम कुक्षिजं बालं पुत्रं सहाऽऽनयामास। स च बालो नागराणां वत्सान् चारयामास ।