________________
१८०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः परिणायितवान् । शालिभद्रश्च ताभी रम्ये विमाने देवेन्द्र इव गृहे स्वैरं रेमे । स आनन्दमग्नो दिवसं रात्रि वा न विवेद । तस्य पितरौ स्वयं भोगसामग्री पूरयामासतुः।
अथ गोभद्रः श्रीवीरजिनपार्वे व्रतं गृहीत्वा विधिपूर्वक मनशनं विधाय च देवलोकं गतो निजात्मजं शालिभद्रमवधिज्ञानतो ज्ञात्वा तत्पुण्यैराकृष्टः पुत्रवात्सल्यवान् विचित्राणि दिव्यवस्त्रादीनि प्रतिदिनं कल्पद्रुम इव सभार्यस्य पुत्रस्याऽर्पयामास । भद्रा च व्यवहारोचितं सर्वं कार्यं चकार । पूर्वदानप्रभावेण भोगानभुक्त च । ____ अन्यदा केचिद् वणिजो रत्नकम्बलानादाय नृपं भेजुः । श्रेणिकनृपश्च महार्घत्वेन तान्नाऽग्रहीत् । ततस्ते शालिभद्रगृहं जग्मुः । भद्रा च तदुक्तमूल्येन तान् रत्नकम्बलानग्रहीत् । तदानीं च चेलणादेव्या मद्योग्य एकः कम्बलो महामूल्येनाऽपि गृह्यतामित्युक्तः श्रेणिको नृप एकं कम्बलं मूल्येन मम देहीति वणिजो जगाद । ततस्ते भद्रा तान् सर्वान् कम्बलानग्रहीदित्यूचुः । ततः श्रेणिक एकं पुरुषं मूल्येन कम्बलग्रहणार्थं भद्रापार्वे प्रेषीत् । तेन प्रार्थिता च भद्रोवाच-"ते कम्बलाः फालयित्वा मया शालिभद्रपत्नीपादप्रोञ्छनीकृताः । तद्यदि जीर्णैः कम्बलैः कार्यमस्ति तर्हि गत्वा नृपं पृष्ट्वाऽऽगत्य गृहाण" । ततः स पुरुषो गत्वा नृपाय सर्वमाख्यत् ।
ततश्चेलणोवाच-"अस्माकं वणिजां च पित्तल-सुवर्णयोरिवाऽन्तरं पश्य" । ततः श्रेणिकेन तं पुरुषमेव प्रेष्याऽऽहूते शालिभद्रे भद्रा समेत्य विज्ञापयामास-"मम पुत्रो बहिर्न कदाऽपि याति, तन्मद्गृहागमनेन मामनुगृहाण" । श्रेणिकश्च कौतुकात् तत् प्रतिपन्नवान् । भद्रा च तं क्षणं प्रतीक्ष्याऽग्रे भूत्वा गृहं गत्वा स्वगृहाद् राजप्रासादावधि रत्नैर्वस्वैश्चित्रचर्मभिश्च प्रासादशोभां चकार । ततस्तया
दशमं पर्व - दशमः सर्गः ऽऽकारितो नृपो देवैः कृतामिव हट्टशोभां पश्यन् शालिभद्रभवनं भुवि दिव्यविमानमिव स्थितं प्राप्य विस्मितः प्रविश्य च चतुर्थ्यां भूमौ सिंहासने उपविष्टवान् ।
ततो भद्रा सप्तम्यां भूमौ गत्वाऽत्राऽऽगतं श्रेणिकं द्रष्टुं क्षणमेहीति शालिभद्रमुवाच । ततः स भद्रामुवाच-"मातर्यत् त्वं वेत्सि तत् सर्वं कारय, मया तत्र किं कर्त्तव्यम् ?" ततो भद्रोवाच"नृपो न क्रेतव्यं वस्तु, किन्तु जनानामिव युष्माकमपि स्वामी स:"। तच्छ्रुत्वा शालिभद्रो विषण्णो दध्यौ-"सांसारिकमैश्वर्यं धिक्, यद् ममाऽपि कोऽपि स्वामी । तत्सपैरिवैभिर्भोगैरलम् । शीघ्रमेव वीरजिनपावें दीक्षा ग्रहीष्यामि" । एवं संविग्नोऽपि स मातुरनुरोधात् सपत्नीक आगत्य सविनयं नृपं प्रणनाम । श्रेणिकश्च स्वपुत्र इव तमालिङ्ग्याऽङ्के समुपवेश्य स्नेहाद् मस्तके आजघ्रौ किन्तु स क्षणाद् बाष्पाणि पातयामास ।
ततो भद्रोवाच-"नृप ! त्यजेमं, यतो नरोऽप्ययं मनुष्यमाल्यगन्धेन पीड्यते । देवत्वं गतः श्रेष्ठी सपत्नीकस्याऽस्य प्रतिदिनं दिव्यनेपथ्यादीनि प्रयच्छति" । ततो नृपेण विसृष्टः स शालिभद्रः सप्तमभूमिकां जगाम । भद्रया चेहैव भोक्तव्यमिति विज्ञप्तो नृपस्तत् प्रतिपन्नवान् । भद्रा च शीघ्रमेव सर्वं प्रगुणीचकार।।
ततः स्नानं कुर्वतो नृपस्याऽगुल्या ऊर्मिका गृहवाप्यां पतिता। यावच्च नृप इतस्ततोऽन्वेषयामास तावद् भद्रा दासीं वापीजलाऽपाकरणायाऽऽदिशत् । दास्या तथा कृते च नृपश्चित्राभरणमध्येऽङ्गाराभं स्वाङ्गुलीयं दृष्ट्वा विस्मितः किमेतदिति दासी पप्रच्छ । तदा सोवाच-"अत्र प्रतिदिनं सभार्यस्य शालिभद्रस्य निर्माल्यं