________________
१७४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो गौतमस्तान् महानसलब्ध्या सर्वानेव भोजयामास । पश्चाच्च स्वयमपि भुक्तवान् । तेन ते विस्मिता बभूवुः । ततस्तेषां भोजनं कुर्वतां मुनीनां तापसानां शेवालभक्षिणां दिष्ट्याऽस्माभिर्वीरो धर्मगुरुः पितृकल्प एष मुनिर्दुर्लभो बोधश्च प्राप्तः, सर्वथा वयं कृतकृत्याः स्मः" । एवं शुभभावनावतां शीघ्रमेव केवलमुत्पन्नम् । तथा प्रातिहार्याणि श्रीवीरजिनं चाऽवलोकमानानां दत्तादीनां कौण्डिन्यादीनां चाऽमलं केवलं जज्ञे । ततस्ते प्रभुं प्रदक्षिणीकृत्य केवलिपर्षदं जग्मुः । गौतमश्च प्रभुं वन्दध्वमिति तानुवाच । ततः प्रभुरुवाच-"केवल्याशातनां मा कार्षीः" । ततो गौतमो मिथ्यादुष्कृतपूर्वं तान् क्षमयामास ।
तथा पुनः स गौतमो दध्यौ-"गुरुकर्माऽहमत्र भवे न सेत्स्यामि, एते मम शिष्या धन्याः, येषां केवलमुत्पन्नम्" । एवं चिन्तयन्तं गौतमं प्रभुरुवाच-"गौतम ! सुराणां वचः सत्यं जिनानां वा ?" ततो जिनानामिति गौतमेनोक्ते प्रभुरुवाच-"ततोऽसन्तोषं मा कार्षीः, शिष्याणां गुरुषु तृणद्विदलचर्मोर्णाकटतुल्याः स्नेहा भवन्ति । तत्र तवाऽस्मासु चिरसम्पर्काद् दृढतर उर्णाकटतुल्यः स्नेहः, तेन तव केवलं रुद्धमस्ति । तादृशस्नेहाभावे सति तव केवलं भविष्यति" । तथा प्रभुर्गौतमस्य प्रबोधायाऽन्येषामनुशासनाय च द्रुमपत्रीयाध्ययनं व्याचख्यौ ।
दशमं पर्व - नवमः सर्गः प्रभुणोक्त:-"तत्र राजगृहे नागरथिपत्न्याः सुलसाया अस्मदाज्ञया प्रवृत्ति पृच्छेः" । सोऽम्बडश्चेच्छामीत्युक्त्वाऽऽकाशमार्गेण राजगृहं गत्वा सुलसाया गृहद्वारे स्थित्वा दध्यौ-सुरेन्द्रादीनामवलोकमानानां सतां प्रभुः किमिति सुलसापक्षपाती, तत्परीक्षणं करिष्ये" ।
एवं विचार्य सोऽम्बडो वैक्रियलब्ध्या रूपान्तरं कृत्वा सुलसागृहे प्रविश्य भिक्षां ययाचे । सा च पात्राय साधवे भिक्षां ददामीति कृतप्रतिज्ञा याचमानायाऽपि तस्मै भिक्षां न ददौ । ततः स नगराद् निर्गत्य गोपुरस्याऽग्रे ब्रह्मणो रूपं विकृत्य समाहितः स्थितो धर्मदेशनया नागराणां मनो जहार । सुलसा च बहिः स्वयं ब्रह्माऽस्तीति सखीभिराकारिताऽपि न ययौ । ततो द्वितीयदिनेऽम्बडो विष्णुरूपं विकृत्य दक्षिणस्यां स्थितवान् । तत्राऽपि सम्यग्दृष्टिः सा सुलसा न जगाम । तृतीयदिने चाऽम्बडः पश्चिमायां गौरीसहितं शिवरूपं विकृत्य धर्मदेशनया पौराणां मनोऽहार्षीत् । किन्तु सुलसा द्रष्टुमपि नाऽऽजगाम ।
चतुर्थदिवसे च सोऽम्बडः उत्तरस्यां समवसरणं विकृत्य तत्र जिनीभूय स्थितवान् । पौराश्च तत्राऽऽगत्य धर्मदेशनामश्रौषुः, तथाऽप्यनागतां सुलसां क्षोभयितुं स कञ्चित्पुरुषं प्रेषीत् । स च गत्वा तामुवाच-"सुलसे ! जिनेश्वरः समवसृतोऽस्ति, तत्तं वन्दितुं कि चिरयसि ?" ततः सलसा तमवाच-"नाऽयं जिनः, श्रीवीरप्रभुश्चरमो जिनः" । ततः स तां प्रत्युवाच-"मुग्धे ! अयं पञ्चविंशस्तीर्थकरोऽस्ति, तत्प्रत्यक्षं पश्य" । तत: सुलसोवाच-"न पञ्चविंशो जिनः कदाऽपि भवति, अयं तु भिक्षुको मिथ्यामतिर्लोकान् वञ्चयते" । ततः स पुमानुवाच-"भद्रे ! भेदं मा कार्षीः, शासनस्य प्रभावना भवति, तदेहि, न ह्यनेन तव काऽपि हानिः"।
अथ तस्मिन्नवसरे प्रभोरुपासकः परिव्राजकोऽम्बडश्छत्रत्रिदण्डधरस्तत्राऽऽगत्य प्रभुं त्रिः प्रदक्षिणीकृत्य प्रणम्य पुलकिततनुरञ्जलि विदधे । ततो भक्त्या स्तुत्वा यथास्थानमुपविश्य च देशनां श्रुत्वाऽन्ते प्रभुं पुनर्नत्वा राजगृहं प्रति प्रतिष्ठमान: